________________
आचार्यश्रीहेमचन्द्रविरचिते [ था० ४०९मृषति, अदन्तत्वाद् न गुणः। अर्चि-अदि-शुन्धि-तपि-वदि-मृषयः षडपि परस्मैपदिन इति भीमसेनीयाः ॥
४१० शिषण असर्वोपयोगे'। असर्वोपयोगः अनुपयुक्तत्वम् , शेषयति, शेषति । शिष्लँप् विशेषणे [ ६।२० ], शिनष्टि । विपूर्वोऽतिशये, अतिशय उत्कर्षः, विपूर्वः शिषिः अतिशये युजादिः, विशेषयति, विशेषति । क्ये 'विशेष्यते । सिचि व्यशेषीत् । शिष्लुप् विशेषणे [ ६२० ], विशिनष्टि, व्यशिषत् ॥ .
' ४११ जुषण परितर्कणे' । परितर्पण इत्येके । जोषयति, जोषति । जुषैति प्रीतिसेवनयोः [ ५।१५८ ], जुषते ॥
* ४१२ धृषण प्रसहने' । प्रसहनम् अभिभवः । वर्षयति, धर्षति । "ऋदुपान्त्याद्०" ५।१४१ इति क्यपि प्रधृष्यम् । आदिदयमित्येके, तन्मते " नवा भावाऽऽरम्भे" ४।४।७२ इति क्तयोर्वा नेट्, प्रधृष्टमनेन । " न डी० " ४।३।२७ इति कित्त्वाभावे प्रधर्षितमनेन, प्रधृष्टः, प्रधृष्टवान् , प्रधर्षितः, प्रधर्षितवान् । निषाट प्रागल्भ्ये [ ४।२७], धृष्णोति ॥
। अथ सान्तः ॥ ' ४१३ हिसुण हिंसायाम् '। उदिचाने हिंसयति, हिंसति । हिसुपु हिंसायाम् [६।२२ ], हिनस्ति ॥
अथ हान्तौ ॥ '४१४ गर्हण विनिन्दने' । गर्हयति, गर्हति । गर्हि कुत्सने [ ११८६० ],
गहते ॥
' ४१५ षहण मर्षणे' । “पः मो०” २।३।९८ इति सत्वे साहयति । 'सहति कलभेभ्यः परिभवम् ' ( सुभाषित० ६३१)। पहि मर्षणे [१।९९०),
सहते ॥
१. विशि इति मु. पा० ॥