SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ४०९] धातुपारायणे चुरादयः (९) [ ३५५ [१], तनुते, तनोति । ते ततः । “उपसर्गाद् दैर्ये" उपसर्गपूर्वः तनू दैर्येऽर्थे युजादिः, आतानयति, वितानयति, प्रतानयति; आतनति, वितनति, प्रतनति । अन्यत्र तनोति । वन श्रद्धोपहिंसनयोः इति चान्द्रं पारायणम् ॥ ४०३ मानण पूजायाम् । मानयति, मानति । अयं मन इत्येके, मानयति, मनति । मानि पूजायाम् [ १७४९ ], मीमांसते ॥ अथ पान्तास्त्रयः ॥ '४०४ तपिण दाहे' । तापयति, पक्षे इदिचाद् आत्मनेपदे तपते । तपं सन्तापे [ ११३३३], तपति । तपिंच अश्चर्य वा [ ३३१२४ ], तप्यते ॥ . ४०५ तृपण प्रीणने '। सन्दीपने इत्येके । तर्पयति, तर्पति । ते तृपितम् । अयं चूतण दपण सन्दीपने इत्येके, चर्तयति, चैतति; दर्पयति, दर्पति । दृपौच हर्षमोहनयोः [ ३।४७ ], दृप्यति । तृपौच प्रीती [ ३।४६ ], तृप्यति । तुपट प्रीणने [४।२३], हप्नोति ॥ '४०६ आप्लणू लम्भने ' । लम्भनं प्राप्तिः । आपयति, आपति । लदिचादडि आपत् । क्ते आपितम् । “ वाऽऽमोः" ४।३।८७ इति यपि णेर्वाय अस्यापीत्येके, प्रापय्य प्राप्य वा गतः । आप्लँट व्याप्ती [ ४।२२ ], आमोति ॥ अथ भान्तः ॥ ४०७ दृभैण भये' । दर्भयति, दर्भति । ऐदिचात् क्तयोनेंट, दृन्धः, दृब्धवान् । दृभैत् ग्रन्थे [ ५७५ ], दृभति ।। अथ रान्तः ॥ '४०८ ईरण क्षेपे' । गतावित्येके । क्षेपः प्रेरणम् । ईरयति, ईरति । ईरिक गतिकम्पनयोः [२।५७ ], ईर्ते ॥ अथ षान्ताश्चत्वारः ॥ '४०९ मृषिण तितिक्षायाम् ' । मर्षयति, पक्षे इदिचादात्मनेपदे मर्षते । मृध सहने च [ ११५२८ ], मर्षति । मृषीच तितिक्षायाम् [३।१४१ ], मृष्यते, मृष्यति । मृषण क्षान्तौ [ ९।३५४ ], अदन्तः, मृष्यति । णिचोऽनित्यत्वाद
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy