________________
३७९ ] धातुपारायणे चुरादयः (९)
अथ विकल्पितणिचो युजादयः ॥ '३७५ युजण संपर्चने '। "युजादेः०" ३।४।१८ इति वा णिचि योजयति, पक्षे न्याय्यविकरणः शव योजति । युजिच समाधौ [ ३३१११ ], युज्यते । युनूंपी योगे [ ६४ ]; युक्त, युनक्ति । 'इह युजादीनां नियतो णिज्विकल्पः, चुरादीनां तु यथादर्शनं णिजनित्य इत्युक्तमेव ॥
अथ ईदन्तास्त्रयः ॥ '३७६ लीण द्रवीकरणे' । “लियो नोऽन्तः" ४।२।१५ इति नेऽन्ते घृतं विलीनयति, पक्षे "नामिनो०" ४३५१ इति वृद्धौ विलाययति । " लीङ्लिनोर्वा " ४।२।९ इति आत्वमस्याऽपीत्येके, तन्मते वाऽऽत्वे " लो लः" ४।२।१६ इति वा लेऽन्ते घृतं विलालयति; पक्षे " अतिरी." ४।२।२१ इति पौ विलापयति । लीडलिनोर्चा० " ३३९० इत्यात्मनेपदमात्वं चास्यापि णिच्यपीत्येके, कस्त्वाम् उल्लापयते, आलापयते, अपलापयते । णिजमावे विलयति, लयति । लींच श्लेषणे [३।१०५ ], लीयते । लींश् श्लेषणे [ ८१९], लिनाति ॥
'३७७ मीण मतौ' । मतिर्मननम् । गतावित्यन्ये । माययति, मयति । मीड्च् हिंसायाम् [ ३३१०३], मीयते । मींग्श हिंसायाम् [८५], मीनाति, मीनीते ॥
__३७८ प्रीगण तर्पणे ' । गित्वस्य णिजमावे फलवकर्तर्यात्मनेपदार्थत्वाद् गिचि “धृगप्रीगोः" ४।२।१८ इति नेऽन्ते, "शेषात्" ३।३।१०० इति परस्मैपदे श्रीणयति । क्रथादेरेव नामच्छन्त्येके, तन्मते " नामिनो०" ४३५१ इति वृद्धौ प्राययति', पक्षे प्रयते, प्रयति । प्रींच प्रीती [ ३३११० ], प्रीयते । श्रींगश दृप्तिकान्त्योः [ ८३ ], प्रीणीते, प्रीणाति ॥
अथ ऊदन्तः ॥ '३७९ धृगण कम्पने' । “धूगग्रीगोः०" ४।२।१८ इति ने धृनयति । नं नेच्छन्त्येके धावयति', पक्षे गित्वात् फलवत्कर्तरि आत्मनेपदम् । अन्यत्र तु " शेषात्" ३३।१०० इति परस्मैपदम् , धवते, धवति । धूगट् कम्पने [४६], धूनुते, धुनोति । धृत् विधूनने [५।११६ ], धुवति । धूग्श् कम्पने [ ८1१३ ], धुनीते, धुनाति ॥ १. तुलना:-क्षो. त. पृ. ३०५, ३०८ ॥ २. क्षीरस्वामी, (क्षो. त. पृ. ३०७) ॥