SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३५२ ] आचार्य श्री हेमचन्द्रविरचिते [ बा० ३८० अथ ऋदन्तः ॥ " , ३८० वृगूणू आवरणे ' । वारयति, पक्षे गिच्चात् उभयपदे वरते, वरति । वृट् वरणे [ ४1९] वृणुते, वृणोति । वृङ्शू संभक्तौ [ ८/६० ], वृणीते ॥ अथ ऋदन्तः ॥ 4 66 ३८१ जणू वयोहानौ' । जारयति । णिवेत्ति० ५।३।१११ इत्यने जाणा । पक्षे जरति । ज्रीति नन्दी, ज्राययति, ज्रयति । जंबूचू जर सि [ ३२ ], जीर्यते । जृशू वयोहानौ [ ८|२९ ], जृणाति ॥ अथ कान्तौ ॥ 6 " ३८२ ची ३८३ शीकणू आमर्षणे । चीकयति, चीकति ॥ " , ' ३८३ शीकिः तालव्यादिः । शीकयति, शीकति । डे अशीशिकत् । शी सेचने [ १६११], शीकते । णिगि डे ऋदिवाद् हस्वाभावे अशिशीकत् ॥ अथ गान्तः ॥ ' ३८४ मार्गण अन्वेषणे ' । मार्गपति, मार्गति । अमार्गीत् ॥ अथ चान्ताश्चत्वारः ॥ 6 , ३८५ पृच संपर्चने ' । संपर्वयति, संपर्चति । यङि परपृच्यते । पृचैकू संपर्चने [ २।५० ], संपृक्ते । पृचैप् संपर्के [ ६।१० ], संपृणक्ति ॥ ' ३८६ स्विणू वियोजने च ' । चकारात् संपर्चने । रेचयति, रेवति । रिचंपी विरेचने [ ६२ ], रिक्ते, रिणति ॥ " ३८७ वचणू भाषणे' । संदेशने इत्येके । वाचयति वचति । ४|१।७२ इत्यत्र यौजादिकस्याऽग्रहणाद् वृदभावे क्ये वच्यते । डे वचं भाषणे [ २।३८ ], वक्ति । क्ये उच्यते ॥ "यजादि ० " अवीवचत् । 4 ३८८ अर्चिणू पूजायाम् ' । अर्चयति, पक्षे इदिच्चादात्मनेपदे शवि अर्चते । अर्च पूजायाम् [ १।१०४ ], अर्चति ॥ १. ऋदन्त इति मु० ॥ २ तुलना - चन्द्रः संदेशे चुरादिमाह (क्षो त, पृ. ३१० ) ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy