________________
३५.]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३६८
अथ रान्तास्त्रयः ॥ ___ ३६८ शूर ३६९ वीरणि विक्रान्तौ' । शूरयते । डे अशुशूरत' । अचि शूरः । शूरैचि स्तम्भे [ ३।१३० ], शूर्यते । णिगि डे अशुशूरत ॥
'३६९ वीरणि' । वीरयते । उ अविवीरत' । अचि वीरः । “य एच्चा०" ५।१।२८ इति भावे ये वीर्यम् ॥
'३७० सत्रणि संदानक्रियायाम् ' । सन्तानक्रियायामित्येके । सत्रयते शत्रुन् । डे अससत्रत' । सनि अषोपदेशत्वात् पत्वाभावे सिसत्रयिषते ॥
__ अथ लान्तः ॥ '३७१ स्थूलणि परिवहणे' । परिवहणं पीनत्वम् । स्थूलयते । हे अतुस्थूलत' । सनि अपोपदेशत्वात् षत्वाभावे तुस्थूलयिषते । अचि स्थूलः ॥
अथ वान्तः ॥ '३७२ गर्वणि माने' । गर्वयते । उ अजगर्वत । अलि गर्वः । गर्व दर्षे [ ११४६२ ], गर्वति ॥
___ अथ हान्तौ ॥ '३७३ गृहणि ग्रहणे' । गृहयते । उ अजगृहत । " शीश्रद्धा० " ५।२।३० इत्यालौ गृहयालुः । क्ते गृहितम् ॥
' ३७४ कुहणि विस्मापने' । कुहयते । डे अचुकुहते । णके कुहकः । भिदाधडि कुहा नाम नदी । “णिवेत्ति० " ५।३।१११ इत्यने कुहना दम्भः । उणादौ " मिवमि० " ( उ० ५१ ) इत्युके कुहुकम् आश्चर्यम् । “पृकाहवि० " ( उ० ७२९ ) इति किद् उः, कुहुः नष्टचन्द्राऽमावास्या । "नृतिशधि०" ( उ० ८४४) इति किद् ऊः, कुहः सैव ॥ अवसिता अदन्ताः ॥
१. "त् इति मु० । अत्र आत्मनेपदी धातुः, परस्मैपदिनः रूपं तु अशुद्धम् ।। २. 'सत्त्र संतान क्रियायाम्' इति क्षीरस्मामी, (क्षी. त. पृ. ३१७) ॥ ३. कुहुकः इति मु० ॥