________________
३४४ ]
आचार्यश्री हेमचन्द्रविरचिते [ धा० ३१६
अथ दान्तौ ॥
"
३१६ छेद द्वैधीकरणे ' । छेदयति । ङे अविच्छेदत् । क्ते छेदितम् । यपि विच्छेद्य ॥
' ३१७ गदणू गर्जे ' । गर्जो मेघशब्दः । गदयति । ङे अजगदत् । गद व्यक्तायां वाचि [ १।२९७ ], गदति । णिगि गादयति । हे अजीगदत् ॥ अथ धान्तः ॥
' ३१८ अन्धणू दृष्ट्युपसंहारे ' । अन्धयति । सनि “ इति नस्य द्वित्वप्रतिषेधाद् घेरेव द्वित्वे अन्दिधयिषति ॥
न बदनं ० " ४|११५
अथ नान्ताश्चत्वारः ॥
4
३१९ स्तन गर्जे ' । गर्जो मेघशब्दः । स्तनयति । ङे अतस्तनत् । अपोपदेशत्वात् त्वाभावे तिस्तनयिषति । उणादौ " हृषिपुषि० " ( उ० ३९७ ) इति इत्नौ स्तनयित्नुः गदयित्नुश्च मेघः । स्तन शब्दे [१ ३२३ ], स्तनति । णिगि शब्दादन्यत्र न घटादित्वम् स्तानयति ॥
' ३२० ध्वनणू शब्दे ' । ध्वनयति । ङे अदध्वनत् । ध्वन शब्दे [ १ ३२५ ], ध्वनति । णिगि शब्दादन्यत्र घटादित्वाभावे ध्वानयति ॥
6
३२१ स्तेन चौर्ये ' । स्तेनयति । ङे अपोपदेशत्वात् पत्वाभावे अतिस्तेनत् । अचि स्तेनः ॥
' ३२२ ऊनण् परिहाणे ' । ऊनयति । डे मा भवान् ऊभिनत् । अचि ः । ते नितम् ॥
अथ पान्तास्त्रयः ॥
' ३२३ कृपण दौर्बल्ये ' । कृपयति । ङे अचक्रपत् । नन्द्यादित्वादने कृपणः । स्त्री चेत् कृपणा । मृगया० ५|३|१०१ इति निपातनाद् अनापवादेऽङि कृपा |
66
"
कृपौ सामर्थ्य [१९५९], कल्पते । कृपणू अवकल्कने [ ९।१७९ ], कल्पयति ॥
4
३२४ रूपणू ' रूपक्रियायाम् ' । रूपक्रिया राजमुद्रादिरूपस्य करणम्, रूपयति । णके रूपकम् । अलि रूपम् । णिवेत्ति० " ५।३।१११ इत्यने रूपणा । रूपप्रदर्शनं वा रूपक्रिया; निरूपयति, निरूपणा ||
66
१. तुलना:- क्षीरतरङ्गिणी पृ. ३२१ ॥