________________
३१५ ] धातुपारायणे चुरादयः (९)
[ ३४३ '३०९ कुण ३१० गुण ३११ केतण आमन्त्रणे, आमन्त्रणं गूढोक्तिः; कुणयति, गुणयनि । डे अचुकुण , अजुगुणत् । कुणत् शब्दोपकरणयोः [५।५२ ], कुणति । णिगि डे अचूकुणत् ॥
अथ तान्तास्त्रयः ॥ '३११ केतण' । केतयति, संकेतयति । डे अचिकेतत् , क्ते केतितः । क्त्वो यपि संकेत्य । अयं निश्रावणनिमन्त्रणयोरपीत्येके' ॥
'३१२ पतण गतौ वा ' । वाशब्दो णिजदन्तत्वयोः युगपद्विकल्पार्थः, पतयति । हु अपपतत् । "शीश्रद्धा०" ५।२।३७ इति आलौ " आमन्ता०" ४३८५ इति णेरयि पतनशीलः, पतयालुः, पक्षे पतति । " व्यअनादेः०" ४३७८ इति वा वृद्धौ अपातीत् , अपतीत् । पत्ल. गतौ [ ११९६२ ], पतति, अपप्तत् ।।
'३१३ वातण गतिसुखसेवनयोः'। सुखसेवनयोः इत्येके । वातयति, डे अक्वातत् । नायं वातः किन्तु वा इत्येके, वापयति, निर्वाप्य गतः । वांक गतिगन्धनयोः [२५], वाति ॥
अथ थान्तौ ॥ '३१४ कथण वाक्यप्रबन्धे' । वाक्यप्रतिबन्धे इत्यन्ये । प्रतिबन्धो विच्छेदोदीरणात् । वदने इत्यपरे । कथयति । D अचकथत् । णके कथकः । " भीषिभूषि० " ५।३।१०९ इत्यङि कथा । " पुनाम्नि० " ५।३।१३० इत्याधारे घे आगत्य कथ्यतेऽस्मिमिति आस्कथः, वर्चस्कादित्वात् सोऽन्तः । क्त्वो यपि " लघो:०". ४।३।८६ इति पेरयि संकथय्य । कथम् अचीकथत् ? ' भूरिदाक्षिण्यसंपन्न, यचं सान्त्वमचीकथः ' [ ] इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्यापि पूर्वस्य ईत्वमिच्छन्ति, तन्मते भविष्यति, प्रकृत्यन्तरं वाऽन्वेष्यम् ॥ ___३१५ अथण दौर्बल्ये ' । श्रथयति । ऋफिडादित्वाल्लत्वे श्लथयति । डे अशश्लथत् । श्रथण प्रतिहर्षे [ ९।८५ ], श्राथयति । अथण बन्धने च [९।३९६], "युजादेः० " ३४।१८ इति वा णिचि श्राथयति, श्रथयति । श्रथुङ शैथिल्ये [ १७१७ ]. श्रन्थते ॥
१. विश्रामणाऽऽमन्नणयोरिति क्षीर० (क्षी. त. पृ. ३१६)॥