________________
३४० ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० २८१
. तत्र कान्तौ ॥ * २८१ अङ्कण लक्षणे' । अङ्कयति । सनि “ स्वरादे:०" ४।१।४ इति केद्वित्वे अश्चिकयिषति । अनदन्त एवायमित्येके । अकुङ् लक्षणे [ ११६१० ], अङ्कते ॥
* २८२ ब्लेष्कण् दर्शने' । ब्लेष्कयति । णिजभावेऽप्यदन्तत्वार्थोऽस्य पाठः, तेनानेकस्वराद् यङ् न भवति । एवं मृत्रि-रूक्षि-गविप्रभृतीनां पाठे प्रयोजनमुन्नेयम् ; अनदन्ता एवैते' इत्येके ॥
अथ खान्तौ ॥ २८३ सुख २८४ दुःखण तक्रियायाम् ' । सुखनं दुःखनं च तक्रिया;. सुखयति, असुसुखत् । अचि सुखम् । दुःखयति । अचि दुःखम् ॥
अथ गान्तः ॥ ' २८५ अङ्गण पदलक्षणयोः' । अङ्गयति । सनि अधिगयिषति । अस्यापि पूर्वाचार्यानुरोधेनाऽदन्तेषु पाठः ॥
। अथ घान्तः ॥ * २८६ अघण् पापकरणे' । अधयति । सनि अजिघयिषति ॥
अथ चान्तौ ॥ '२८७ रचण प्रतियत्ने' । रचयति, रचयांचकार, अररचत् । “णिवेत्ति०" ५।३।१११ इत्यने रचना ॥
'२८८ सूचण पैशून्ये ' । सूचयति । अपोपदेशत्वात् षत्वाभावे असुसूचत् । “ अट्यति० " ३।४।१० इति यङि सोमूच्यते । 'स्मिप्रभृतिभिः साहचर्याद् एकस्वराणामेव हि षोपदेशस्मृतिः अत एव सूत्र-सत्र-संग्राम-साम-समाज-स्थूल-स्तनस्तेन-स्तोम-सुखानामषोपदेशत्वात् सोसूच्यते, सिसत्रयिषते इत्यादौ न षत्वम् । णके सूचकः । अचि सूचः । गौरादित्वाद् ड्याम् सूचयति सूत्रमार्गमिति सूची । " नाम्नि पुसि च" ५।३।१२१ इति णके भीरुष्ठानादित्वात् षत्वे विचिका । उणादौ “ रुक्मग्रीष्म० " ( उ० ३४६ ) इति मे निपातनात् सूक्ष्मः । “पुत्रादयः" (उ० ४५५) इति त्रे निपातनात् सूत्रम् । " स्वरेभ्यः" (३० ६०५) इत्यो सूचिः॥
१. तुलना:-क्षीरतरङ्गिणी ( पृ. ३१४ ) ॥