________________
२९९ ] धातुपारायणे चुरादयः (९)
[ ३५१
अथ जान्ताश्चत्वारः ॥ - २८९ भाजण पृथकमणि' । भाजयति, विभाजयति, अबभाजत् । क्ते भाजितम् । क्त्वो यपि विभाज्य ॥
'२९० सभाजण प्रीतिसेवनयोः' । 'प्रीतिदर्शनयोरित्यन्ये । समाजयति । क्ये सभाज्यते । उ अससमाजत् । अनटि सभाजनम् ॥
'२९१ लज २९२ लजुण प्रकाशने' । लजयति, अललजत् ॥
- २९२ लजुण्' । उदिवाने लायति । लजुण भासार्थः [९।२१० ], लअयति । लज-लजु भर्सने [ ११५४-१५५ ], लजति, लअति ॥
अथ टान्ताः सप्त ॥ '२९३ कूटण दाहे ' । आमन्त्रणेऽपीत्येके। कूटयति डे अचुकूटत् । अचि कूटम् ॥
'२९४ पट २९५ वटण ग्रन्थे । ग्रन्थो वेष्टनम् । पटयति रज्जुम् , वेष्टयतीत्यर्थः । एवं वटयति । विभाजनेऽप्ययमित्यन्ये । उ अपपटत् , अववटत् । पट गतौ [ १११९५ ], पटति । पटण भासार्थः [ ९।२१२ ], पाटयति । वट वेष्टने [१३१७६ ], वटति । णिगि परिभाषणे घटादित्वाद् हुस्वे वटयति । वटुण विभाजने [ ९२९९ ], वण्टयति ॥
'२९६ खेटण भक्षणे' । खेटयति । उ अचिखेटत् । णके खेटकं फलकः, अलि खेटो ग्रामः । “णिवेत्ति०" ५।३।१११ इत्यने आखेटना । नायं खेटः,
खेड इति देवनन्दी, खेडयति । खिट उत्त्रासे [१११७८ ], खेटति, अचीखिटत् ।। ___ '२९७ खोटण क्षेपे' । खोटयति । डे अचुखोटत् । अलि खोटः । डान्तोऽयमिति देवनन्दी, खोडयति । दान्त इत्यन्ये, खोदयति ॥
'२९८ पुटण संसर्गे'। पुटयति । डे 'अपुपुटत् । पुटत् संश्लेषणे [५।१२७], पुटति । पुटण भासार्थः [ ९।२१३], पोटयति ॥
'२९९ वटुण विभाजने ' । उदिवाने वण्टयति । वण्टापयतीत्यप्येके । बटु विभाजने [ ११२०५], वण्टति ॥
१. प्रीतिदर्शने इति क्षीरस्वामी, (क्षी. त. पृ. ३१६) ॥ २. खेड इति दौर्गाः, (क्षी. त. पृ. ३१४)॥ ३. क्षीरस्वामी अपि, (क्षी. त. पृ. ३१४)॥ ४. अ पुटत् इति मु० ॥