________________
३३८]
आचार्यश्रीहेमचन्द्रविरचिते [धा० २७२
अथ रान्तास्त्रयः ॥ '२७२ गूरिण उद्यमे' । गूरयते, उद्गॅरयते खड्गम् । “णिवेत्ति" ५।३।१११ इत्यने गूरणा, आगूरणा । गूरैचि गतौ [ ३।१२९ ], गूर्यते ॥
' २७३ तन्त्रिण कुटुम्बधारणे' । कुटुम्ब परिवारः । उपलक्षणं चैतत् । तन्त्रयते, तन्त्रयांचक्रे । अचि अलि वा तन्त्रम् । कर्मणोऽणि स्वतन्त्रः । उणादौ " पदिपठि०" ( उ० ६०७) इत्यौ तन्त्रिः वीणास्त्रम् । “तृस्तृतन्द्रि०" ( उ० ७११) इति ईः, तन्त्रीः शुष्कस्नायुः आलस्यं च । कुटुम्ब इत्यपि धातुरिति चान्द्राः , कुटुम्बयते ॥
' २७४ मन्त्रिण गुप्तभाषणे' । मन्त्रयते । “ग्रहादिभ्यो." ५।११५३ इति णिनि मन्त्री । अलि मन्त्रः । उणादौ "पदिपठि०" (उ० ६०७) इत्यो मन्त्रिः सचिवः ॥
___ अथ लान्तः ॥ '२७५ ललिण ईप्सायाम् ' । लालयते । अचि लालः, कुत्सितो लालः कुलालः, कर्मणोऽणि कुं लालयते कुलालः । “णिवेत्ति" ५।३।१११ इत्यने लालना । णिचोऽनित्यत्वाद् " इडितो." ५।२।४४ इत्यने लालनाशीला ललना । क्ते ललितः । लाला इति तु “ भिल्लाच्छमल्ल. " ( उ० ४६४ ) इति निपातनाद् ले लातेः । लड विलासे | १२२५४ ], ऋफिडादित्वाद् डस्य लत्वे ललति । णिगि जिह्वोन्मन्थने घटादित्वाद् दृस्वे ललयति श्वा जिह्वाम् । 'गलिण लावणे इत्यप्येके, गालयसे, उद्गालयते । गल अदने [ ११४५२ ], गलति ॥
अथ शान्तौ ॥ ' २७६ स्पशिण ग्रहणश्लेषणयोः' । स्पाशयते । उ " स्मृतृत्वर० " ४।१।६५ इति सन्बद्भावापवादे पूर्वस्याऽन्वे अपस्पशत् । “णौ दान्तशान्त" ४।४।७४ इति क्ते वा निपातनात् स्पष्टः, पाशितः । पपी बाधनस्पर्शनयोः [११९२६ ], अयं स्पशीत्येके; स्पशते, स्पशति । " व्यञ्जनाद् " [५।३।१३२] घजि स्पाशः ॥
१ मुद्रिते चान्द्रधातुपाठे 'तत्रि कुटुम्बधारणे' इत्येवमेकधातुरूपं सूत्रं पठ्यते, स चापपाठः । (क्षी. त. टि. पृ. २९३) । तुलना:- क्षी. त. (पृ. २९३ ) ॥
२. क्षीरस्थाभी, (क्षी. त. पृ. २९५, पृ. १२७ ) ॥