________________
२७१ ] धातुपारायणे चुरादयः (९)
[ ३३७ स्यामयते । स्यम् शब्दे [ ११३८७ ], स्यमति । णिगि “ अमो०" ४।२।२६ इति हस्वे स्यमयति. ॥
२७० शमिण आलोचने'। शामयते, विशामयते । “णौ दान्त." ४।४।७४ इति क्ते वा निपातनात् शान्तः, पक्षे " सेटक्तयोः " ४।३।८४ इति ओर्लक, शामितः । शमूच उपशमे [ ३८७ ], शाम्यति । णिगि “शमोऽदर्शने " ४।२।२८ इति हुस्वे शमयति रोगम् ॥
२७१ 'कुस्मिण कुस्मयने ' । मतिदृष्टे बुद्धयुत्प्रेक्षितेऽर्थे इत्यन्ये । कुत्सितं स्मयनम् , कुस्मयनम् । कुस्मयते, प्रकुस्मयते, आकुस्मयते । क्ये कुस्म्यते । " धातोरनेकस्वरा०" ३।४।४६ इत्यामि कुस्मयांचक्रे । उ अचुकुस्मत । सनि चुकुस्मयिषते । कुस्मयिता, कुस्मयितव्यम् । विपि णिलुको “न सन्धि०" ७४।१११ इति स्थानित्वप्रतिषेधस्य स्कोर्लुक्यभावात् स्थानित्वे " संयोगस्यादौ०" २।१।८८ इति सस्य लुगभावे, संयोगान्तलोपे तु णिलुको “न सन्धि०" ७४।१११ इति स्थानित्वप्रतिषेधात् " पदस्य " २०११८९ इति मस्य लुकि सुकूः साधुकूः । "णिवेत्ति०" ५।३।१११ इत्यने कुस्मना । कुस्मयित्वा, प्रकुस्म्य ॥
___ कुपूर्वेण स्मिडैव कुस्मयते इति प्रयोगसिद्धेयर्थोऽयमिति चेत् , नैवम् , अनिष्टापत्तेः तथा हि, । “गतिक्वन्य० ॥ ३॥१॥४२ इति समासस्य नाम्नैव सह विधानात् तिवाद्यन्तेन सहाभावे "प्रथमोक्तं प्राक् " ३११४८ इति प्राक्त्वानियम इति स्मयतेकु इत्यपि स्यात् , उपसर्गस्य च धातोः प्राक्त्वनियमात् कुप्रस्मयते । अडागमस्य च धात्वादित्वात् कोरग्रतः पाते क्वस्मयत । क्ये “ दीर्घश्चि० " ४।३।१०८ इति दीर्घे कुस्मीयते । एकस्वरत्वाच्च परोक्षाया आमभावे कुसिमिये । अद्यतन्यां सिचि क्वस्मेष्ट । सनि “ ऋस्मि०" ४।४।४८ इतीटि “णिस्तोरेवा." २।३।३७ इति नियमात् षत्वाभावे कुसिस्मयिषते । तृचि तव्ये चानुस्वारेवादिडभावे कुस्मेता, कुस्मतव्यम् । विपि “ इस्वस्य त:" ४।४।११३ इति तेऽन्ते कुम्मित् । " स्त्रियां०" ५।३।९१ भावाकोंः क्तौ कुस्मितिः । क्त्वि कुस्मित्य-कुप्रस्मित्येत्यादीनि रूपाणि स्मिङः प्राप्नुवन्ति । अथ कथं कुस्मति इति ? कुपूर्वात् स्मयतेः "क्वचित् " ५।१।१७१ इति डे कुस्म इवाचरतीति क्विपि क्रियार्थत्वाद् धातुत्वे "शेषात्" ३।३।१०० इति परस्मैपदे भविष्यति । कुस्मनाम्नस्तु णिजबाहुलकानेष्यते ॥
१. तुलनार्थ विशेषार्थ च द्रष्टव्या क्षी. त. (पृ. २९७ ) ।
४3