________________
३३६ ]
माचार्यश्रोहेमचन्द्रविरचिते [ धा० २५७
अथ णान्तात्रयः ॥ '२५७ कूणिण संकोचने' । कूणयते मुखम् । के कूणितं चक्षुः । उणादौ " स्वरेभ्य० " ( उ० ६०६ ) इत्यो कूणिः ॥
' २५८ तूणिण पूरणे' । तूणयते । अलि तूणः । उणादौ "जम्बीरामीर०" ( उ० ४२२) इतीरे तूणीरः । तूलेति चन्द्रः ।। ___'२५९ भूणिण आशायाम् ' । आशङ्कायामित्येके, भ्रूणयते । अलि भ्रूणः ॥
अथ तान्तौ ॥ २६० चितिण संवेदने' । चेतयते । अशिति विषये गेलुंकि व्यञ्जनान्तत्वाद् " इडितो." ५।२।४४ इत्यने चेतनाशील: चेतनः । अप्रत्ययापवादे “णिवेत्ति" ५।३३१११ इत्यने चेतना । " रम्यादिभ्यः०" ५।३।१२६ इति कर्तरि अनटि चेतनः । चितै संज्ञाने [ ११२७८ ], चेतति ।
२६१ वस्ति २६२ गन्धिण् अर्दने' । वस्तयते । अचि वस्तः । उणादौ " स्वरेग्य. " ( उ० ६०६ ) इत्यो वस्तिः ।।
अथ धान्तः ॥ .. २६२ गन्धिण' । गन्धयते । अलि गन्धः । अनटि गन्धनम् । उणादौ " गन्धेरर चान्तः" ( उ० ५०८) इति वे गन्धर्वः ॥
अथ पान्ताश्चत्वारः ॥ ' २६३ डपि २६४ डिपि २६५ डम्पि २६६ डिम्पि २६७ डम्भि २६८ डिम्भिण संघाते' । डापयते । डेपयते । डम्पयते । डिम्पयते ॥
अथ भान्तौ ॥ '२६७ डम्भि' । डम्भयते ।। '२६८ डिम्भिण ' । डिम्भयते । अचि डिम्भः ॥
अथ मान्तास्त्रयः ॥ * २६९ स्यमिण वितर्के' । “यमोऽपरिवेषणे० " ४।२।२९ इत्यत्र ण्यधिकारेऽपि णिग्रहणं नियमार्थम् , तेन “ अमोकम्यमि०" ४।२।२६ इति हूस्वाभावे