SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३३४ ] आचार्यश्रीमचन्द्रविरचिते [ बा० २४२ विवादेऽप्यन्ये, प्रवेदयते वादिना । अन्यत्र विदक् ज्ञाने [ २१४१], वेत्ति | विदि सत्तायाम् [ ३।११५ ], विद्यते । विश्रंती लाभे विन्दति । विदिपू विचारणे [ ६।२५ ], विन्ते ॥ [ ५८ ], विन्दतें, अथ नान्तः ।। 6 , २४३ मन मे । स्तम्भो गर्वः । मानयते, विमानयते वृषलः; पक्षे मनति इति चन्द्रः । अन्यत्र मनिच् ज्ञाने [ ३|१२० ], मन्यते । मनूथि बोधने [ ७१९ ], मनुते ॥ अथ लान्तौ ॥ 4 २४४ बलि २४५ भलिणू आभण्डने ' ' । आभण्डनं निरूपणम् । बलि: ओष्ठयादिः, उद्वालयते । भालयते, निभालयते । अन्यत्र वलि संवरणे [ ११८०७ ], बलते । भलि परिभाषणादौ [ १।८१२ ], भलते || अथ वान्तः ॥ * २४६ दिविणू परिक्रूजने ' । देवयति गन्त्री । अन्यत्र दिवच् क्रीडादौ [ ३१ ] दीव्यति ॥ अथ षान्तः ॥ " २४७ वृषिण शक्तिबन्धे' । आवर्षयते ग्रामः, शक्ति बध्नातीत्यर्थः । शक्तिबन्धः प्रजनासामर्थ्यमित्यन्ये । वर्षयते वर्षधरः । तवर्गतुर्यादिः अयं सामर्थ्य वारणार्थ इत्येके, धर्षयते अरीन् । केचिदमुमुदितं णिचोऽनित्यत्वार्थं पठन्ति, तन्मते शक्तिबन्धेऽपि णिचोऽभावाद् आत्मनेपदामाचे वर्षति । ऊदिचात् क्त्वि वेटू, वृष्ट्वा वर्षत्वा । अर्थान्तरे तु बृष्ट सेचने, वर्ष 11 . अथ सान्तः ॥ 6 66 २४८ कुत्सि अवक्षेपे ' । कुत्सयते । मीषिभूषि० ५।३।१०९ इत्यत्र बहुवचनाद् अङि कुत्सा | बाहुलकाद् " णिवेत्ति ० " ५।३।१११ इति अने कुत्सना ॥ १. णे इति मु० ॥ २. क्षीरस्वामी ( क्षी.. त. पृ. २९६ ) ।। 11
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy