________________
१८४ ] धातुपारायणे चुरादयः (९)
[ ३२७ ऋति अशीशृधत् , अशशर्धत् । अर्थान्तरे तु धूङ् शब्दकुत्सायाम् [१९५८ ], शर्धते । शृधृग् उन्दे [ ११९१० ], शर्धते, शर्धति ॥
अथ पान्तः ॥ '१७९ कृपण अवकल्कने ' । अवकल्कनं मिश्रीकरणं सामर्थ्य च । कल्पयति । अवकल्पने इत्यन्ये, कल्पयति वृत्तिं राजा । चन्द्रस्तु भूकृषौ द्वावपि अवकल्कने चिन्तने इति व्याख्यत् ; संभावयति, अवकल्पयति । अर्थान्तरे तु कृपौङ् सामर्थ्य [११९५९ ], कल्पते ॥
अथ भान्तः ॥ १८० जमुण नाशने' । उदित्त्वाने जम्भयति । क्ये जम्म्यते । जभण् इति चन्द्रः । " जमः स्वरे" ४।४।१०० इति स्वरात्परे ने जम्भयति । अर्थान्तरे तु जभुङ् गात्रविनामे [ ११७८२] जम्भते ॥
अथ मान्तः ॥ १८१ अमण रोगे'। “ अमो कम्यमि०" ४।२।२६ इत्यत्र अमो वर्जनाद् "यमोऽपरिवेषणे०" ४।२।२९ इत्यत्र णिचो नियमार्थत्वाद् वा हस्वाभावे "रुजार्थस्या." २।२।१३ इति वा कर्मणः कर्मत्वे शेषषष्ठ्याम् आमयति चौरस्य ज्वरः । अलि आमः । उणादौ " कुगुवलि." ( उ० ३६५) इत्यये आमयो रोगः ।
"श्वन्मातरिश्चन्' ' ( उ० ९०२) इत्यनि निपातनाद् अरीन् आमयति इति अर्यमा . रविः । अर्थान्तरे तु अम गतौ [ ११३९२ ], अमति । घनि अमः ॥
अथ रान्तौ ॥ १८२ चरण असंशये' | विचारयत्यर्थान् । “णिवेत्ति" ५।३।१११ इत्यने विचारणा । अन्ये तु चरण संशये इति पठन्ति । विचारणा हि संशये सति भवति इति चाहुः । अर्थान्तरे तु चर भक्षणे च [ ११४१० ], चरति ॥
— १८३ पूरण आप्यायने ' । पूरयति । अर्थान्तरे तु पूरैचि आप्यायने [३१२५], पूर्यते ॥
अथ लान्तः ॥ ' १८४ दलण विदारणे' । दालयति, दाग्यतीत्यर्थः । अर्थान्तरे तु दल त्रिफला विशरणे [ ११४१३-४१४ ], दलति । णिगि घटादित्वाद् हस्वे दलयतीत्येके ।।