________________
३२८ ]
आचार्यश्रीहेमचन्द्रविरचिते [ था० १८५
अथ वान्तः ॥ '१८५ दिवण अर्दने' । देवयति शत्रून् । परिदेवयति, अतिदेवयति । अतिपूर्वादेव णिच् इत्येके । अर्थान्तरे तु दिवूच क्रीडादौ [ ३३१ ], दीव्यति ॥
.अथ शान्तः ॥ “१८६ पश १८७ पषण बन्धने ' । पाशयति पाशैः अश्वम् ।।
अथ षान्ताश्चत्वारः ॥ — १८७ पषण' । पापयति पाशैः अश्वम् । दन्त्यान्त्योऽयमित्येके । अर्थान्तरे तु पषी बाधनस्पर्शनयोः इति मूर्धन्यान्तः, तालव्यान्तो, दन्त्यान्त्यश्च आचार्यभेदेन; पशते पशति, पषते पषति, पसते पसति ।।
१८८ पुषण धारणे' । पोषयति आभरणम् , धारयतीत्यर्थः । अर्थान्तरे तु पुष पुष्टौ [ ११५३६ ], पोषति । पुषंच पुष्टौ [ ३।३२ ], पुष्यति । पुषश् पुष्टौ [ ८५७ ], पुष्णाति ॥
__ १८९ घुषण विशब्दने' । विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा; घोषयति, उद्घोषयति । अविशब्दने इन्येके; अपघोषयति, पापम् अपहनुते इत्यर्थः । ऋदित्करणं चुरादिणिचोऽनित्यत्वे लिङ्गम् , तेन " ऋदिच्छ्वि० " ३४।४५ इति इति वाऽङ्गि अघुषत् ; पक्षे अघोषीत् । घोषति । 'जुघुषुः पुष्पमाणवाः' [पातअल महाभाष्य, ७।२।२३] इति विशब्दनेऽपि भवन्ति । नायम् ऋदिदिति कौशिकः । अर्थान्तरे तु घुष शब्दे [ ११४९७ ], घोषति । आङः क्रन्दे, ऋन्दः सातत्ये इत्यन्ये । आङः परो घुषिः क्रन्देऽर्थे चुरादिः भवति, आघोषयति । “णिवेत्ति" ५।३।१११ इत्यने आघोषणा । अन्ये तु आङः क्रन्दः सातत्ये इति पठन्ति । आङः परात् क्रन्देः सातत्येऽर्थे णिज् भवति; आक्रन्दयति नित्यम् , अन्यत्र आक्रन्दति ॥
* १९० भूष १९१ तसुण् अलङ्कारे' । भूषयति कन्याम् , भूष अलङ्कारे [११५३७ ], भूषति ॥
अथ सान्ताः सप्त ॥ * १९१ तसुण्' । उदिचान्ने तंसयति । " 'नाम्नि०" ५।३।१३० इति करणे घे अवतंसः । तसु अलङ्कारे [ ११५३८ ], तंसति ॥