________________
१७२ ] धातुपारायणे चुरादयः (९)
[ ३२५ '१६९ घटण संघाते' । घाटयति । अनटि उद्घाटनम् । उद्घाटितः कपाट: । अर्थान्तरे तु घटिषु चेष्टायाम् [ १११००० ], घटते । घटादित्वाद् इस्वे घटयति । 'हन्त्यर्थाथ; येऽन्यत्र हन्त्यर्थी हिंसाः पठ्यन्ते, तेऽप्यत्र चुरादौ वेदितव्याः' । हनंक हिंसागत्योः [२।४२ ], घातयति । हिंसु तृहप हिंसायाम् [६।२२, २३], हिंसयति, तर्हयति । तत्तद्गणपाठ-सामर्थ्यात्तु हन्ति, हिनस्ति, तृणेढि इत्यादयोऽपि । अनेनैव च सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठः आत्मनेपदादिगतरूपभेदार्थः ॥
अन्ये तु चटास्फुटौ घट च हन्त्यर्था इत्याचं पाठं मन्यन्ते; अस्यार्थः -चट इत्ययं धातुः, आपूर्वश्च स्फुट इति, घट इत्ययं च त्रयोऽप्येते हन्त्यर्था हिंसाः सन्तश्चुरादौ भवन्ति; चाटयति, आस्फोटयति, घाटयति, हन्ति इत्यर्थः । अर्थान्तरे तु न चुरादित्वम् ; चटति, आस्फुटति, घटते । अपरे त्वन्यथा व्याचक्षते; चटास्फुटौ आस्फुटत्यर्थे चुरादिः, चाटयति । घट च; अयं च आम्फुटत्यर्थे चुरादिः, घाटयति । अन्यत्र चटति, घटते ॥
अथ णान्तः ॥ १७० कणण निमीलने' । काणयति चक्षुः, अचि काणः । अर्थान्तरे तु कण शब्दे [ ११२७० ], कणति । गतौ घटादित्वाद् णिगि इस्वे कणयति ।।
अथ तान्तः ॥ १७१ यतण निकारोपस्कारयोः' । निकारः खेदनम् , यातयति अरिम् । "णिवेत्ति०" ५।३।१११ इत्यने यातना तीव्रव्यथा । उपस्कारे यातयति दरिद्रो नागरस्य धनम् । यातयति 'छिद्रं राजा, प्रच्छादयतीत्यर्थः । प्रतियातयति, प्रतिबिम्बयतीत्यर्थः । अर्थान्तरे तु यतैङ् प्रयत्ने [ ११७११ ], यतते । निरश्च प्रतिदाने, निरः परो यतिः प्रतिदानेऽर्थे चुरादिः, निर्यातयति, ऋणम् शोधयतीत्यर्थः ॥
अथ दान्ताः षट् ॥ '१७२ शब्दण उपसर्गाद् भाषाऽऽविष्कारयोः' । भाषो भाषणम् । भाषे आविष्कारे चार्थे शब्द इत्ययं धातुरुपसर्गात्परः चुरादिः, विशब्दयति, प्रशब्दयति । प्रतिशब्दयति, प्रतिश्रुत्कामाऽऽविष्करोतीत्यर्थः । योगविभागोऽत्र इति नन्दी । शब्द
१. च्छिद्रं इति मु० ॥