SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ १५९ ] धातुपारायणे चुरादय: ( ९ ) [ ३२३ ' इतोऽर्थविशेषे आलक्षिणः' । इतः परम् अर्थविशेषे चुरादयो लक्षिणूपर्यन्ताः प्रस्तूयन्ते तत्राऽऽदौ आदन्तः - 66 "" , 46 ' १५३ ज्ञाणू मारणादिनियोजनेषु' | मारणादयो " मारण- तोषण- निशाने ज्ञश्व" ४|२|३० इति सूत्रोक्ताः तेषु नियोजने चार्थे । जानातिश्चुरादिः । मारणे मारण ० ४।२।३० इति स्वे संज्ञपयति पशुम् तोषणे विज्ञपयति गुरुम् । आज्ञपयति, आज्ञपितः । सनि इवृध० " ४|४|४७ इति वेटू, जिज्ञपयिषति; पक्षे " ज्ञप्याप० ४|१|१६ इति ज्ञीपि द्वित्वाभावे च ज्ञीप्सति । निशाने प्रज्ञपयति शस्त्रम् । नियोजने आज्ञापयति भृत्यम्, ज्ञापितः, ज्ञापितवान् ; अत्र मारणाद्यर्थाभावात् स्वाभावः । उक्तेभ्योऽर्थेभ्योऽन्यत्र न चुरादिः इति ब्रूयादित्वात् आजानाति ॥ " श्नाः, अथ उदन्तः ॥ " । इसने इत्येके । व्यावयति शरान् सहते इत्यर्थः । च्यवते ।। 6 ' १५४ च्यु सहने अन्यत्र च्युं गतौ [ ११५९४ ], अथ ऊदन्तः ॥ | १५५ भ्रूणू अवकल्कने ' । अवकल्कनं मिश्रीकरणम् । भावयति दघ्नौदनम् । विकल्कने इति नन्दी; भावयेत् ब्राह्मणं तपः । अवकल्पने इत्यन्ये; भावयति साधुः समयम् । भू सत्तायाम् [ ११ ], भवति । प्राप्तौ तु भूङः ० ३।४।१९ इति वा णिङि भावयते, पक्षे ङिच्चाद् इङितः ३।३।२२ इति आत्मनेपदे भते ॥ 66 " 44 97 अथ कान्तास्त्रयः ॥ ' १५६ बुक्कण् भषणे ' । भाषणे इत्येके, आभाषणे इत्यन्ये । बुक्कयति श्वा चौरान् | भषणादन्यत्र बुक्क भाषणे [ १/५४ ], बुक्कति ॥ • १५७ रक १५८ लक १५९ रंग १६० लगणू आस्वादने ' । राकयति, लाकयति | आसादने इत्यन्ये, आराकयति, आलाकयति धर्मम् ॥ अथ गान्तास्त्रयः ॥ 6 • १५९ रग । रागयति ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy