SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३२२ ] आचार्यश्रीहेमचन्द्रविरचिते [पा० १४४ तथा च णिचोऽनित्यत्वात् चौरादिकेनैव पेसति इति प्रयोगसिद्धौ भ्वादौ पाठोऽस्याऽऽत्मनेपदार्थः, पेसते ॥ * १४६ जस' । “जासनाट० " २२२।१४ इति कर्मणो वा कर्मत्वे "शेषे" २।२।८१ इति षष्ठ्यां चौरस्य उजासयति ।। अथ हान्तौ ॥ '१४७ बर्हण ' । बर्हयति । वहि प्राधान्ये [ ११८६२ ], 'वईते ॥ “१४८ णिहण स्नेहने' । “पः सो." २३९८ इति से स्नेहयति । पोपदेशत्वाद् “णिस्तोरेवा० " २।३।३७ इति पत्वे सिष्णेहयिषति । णिहीच प्रीती [३९८ ], स्निह्यति ॥ अथ क्षान्तास्त्रयः ॥ — १४९ प्रक्षण म्लेच्छने' । प्रक्षयति । अनटि प्रक्षणम् । भ्वादौ प्रक्ष रोषे इत्येके, प्रक्षति ॥ १५० भक्षण अदने' । भक्षयति । णिगि “ भक्षेहिंसायाम् " २२२१६ इति अणिकर्तुः कर्मत्वे भक्षयति गौः यवान् , भक्षयति गां यवान् मैत्रः । अत्र यवानां प्रसवप्ररोहधर्मत्वेन चेतनत्वाद् भक्षणे प्राणवियोगलक्षणा हिंसा अस्त्येव । हिंसाया अन्यत्र “गतिबोधा. " २२२१५ इति प्राप्तमपि कर्मत्वं न भवतीति "हेतुकत" २२।४४ इति कर्तरि तृतीयायां भक्षयति पिण्डी शिशुना मैत्रः, " शीलिकामि०" ५।११७३ इति अणपवादे णे मांसभक्षा स्त्री। "युवर्ण" ५।३।२८ इत्यलि भक्ष: ॥ '१५१ पक्षण परिग्रहे ' । पक्षयति । कर्मण्यणि पक्षः ।। अथोभयपदी क्षान्तः ॥ '१५२ लक्षीण् दर्शनाङ्कनयोः' । अङ्कन चिह्नम् । ईदिच्चाद् “ ईगितः " ३३३९५ इति फलवत्कर्तर्यात्मनेपदे लक्षयते, फलवतोज्यत्र " शेषात्० " ३३१०० इति परस्मैपदे लक्षयति । “णिवेत्ति" ५।३।१११ इति अने लक्षणा । " करणाधारे" ५।३।१२९ इत्यनटि लक्षणम् । उणादौ " तकश०" (उ० १८७) इत्यणे लक्षणम् । " लक्षेर्मोऽन्तश्च" (उ० ७१५) इति ई:, लक्ष्मीः । लक्षिण आलोचने [ ९।२४९ ], अर्थविशेषे चुरादिः, लक्षयते ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy