SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० १०३ '१०३ डपु १०४ डिपुण संघाते' । अभिमर्दने इत्येके । उदित्वान्ने डम्पयति, डिम्पयति । भान्तावेतौ इत्यन्ये; डम्भयति, डिम्भयति । अचि डिम्भः ॥ — १०५ शूर्पण माने' । तालव्यादिः । शूर्पयति । अचि “पुनाम्नि०" ५।३।१३० इति करणेऽधिकरणे वा घे शूर्पः ।। अथ बान्ता अष्टौ ..१०६ शुल्बण सर्जने च' । चकारान्माने । तालव्यादिः । शुल्बयति । अचि शुल्बम् ॥ १०७ डबु १०८ डिबुण क्षेपे' । उदित्वान्ने डम्बयति, विडम्बयति । उणादौ " जठर०" (उ० ४०३ ) इत्यरे आडम्बरः ॥ १०८ डिबुण' । उदिवाने डिम्बयति । अचि डिम्बम् अशस्त्रकलहः । केचित्त दमदभुदिभूनपि भान्तानिह अधीयते; दाभयति, दम्भयति, दिम्भयति ॥ __१०९ सम्बण सम्बन्धे' । सम्बयति । पोपदेशोऽयमित्यन्ये । “णिस्तोरेवा." २।३।३७ इति षत्वे सिपम्बयिषति । तालव्यादिरयमिति द्रमिलाः । शम्बयति शम्बलम् । साम्ब इत्येके, साम्बयति । अलि साम्बः ॥ * ११० कुखुण् आच्छादने' । उदिचाने कुम्पयति । " भीषिभूषि० ". ५।३।१०९ इत्यङि कुम्बा ॥ '१११ लुबु ११२ तुवुण अर्दने ' । उदिचाने लुम्बयति । उणादौ "स्वरेभ्य." (उ० ६०६) इति इ., लुम्बिः ॥ . — ११२ तुषुण' । उदिवाने तुम्बयति । अचि गौरादित्वाद् ङ्याम् तुम्बी । " तिकृतौ० " ५।१७१ इति अके तुम्बकः । तुपुण् इत्यप्यन्ये, तुम्पयति ॥ '११३ पुर्बण निकेतने' । “म्वादेन मिनो० " २।१।६३ इति दी पूर्वयति । अचि पूर्वः । पूर्व इत्यमरकोशे ओष्ठयान्तेषु पठितः, तत् प्रकृतित्वानुरोधाद् बान्तेष्वयमस्माभिरिहाधीतः ॥ अथ मान्तः ॥ ११४ यमण परिवेषणे' । अपरिवेषणे इत्यन्ये । यामयति अतिथींश्चन्द्रमसं वा । परिवेषणादन्यत्र “ यमोऽपरिवेषणे णिचि च" ४१२।२९ इति हस्वे यमयति ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy