________________
१२५ ] धातुपारायणे चुरादय: ( ९ )
अथ यान्तः ॥
"
' ११५ व्ययण क्षये ' । व्याययति ॥
[ ३१९
अथ रान्तास्त्रयः ॥
' ११६ यत्रुण संकोचने ' । उदित्वाने यन्त्रयति, नियन्त्रयति । " णिवेत्ति०' ५|३|१११ इत्यने यंत्रणा ॥
' ११७ कुद्रुण अनृतभाषणे' । उदिश्वान्ने कुन्द्रयति । ङे अचुकुन्द्रत् । गादिमिति अन्ये; गुन्द्रा भद्रमुस्ता ।।
' ११८ श्वभ्रण गतौ ' । श्वभ्रयति । अचि श्वभ्रम् ॥
अथ लान्ताः षोडश ॥
११९ तिल स्नेहने ' । तेलयति । णिचोऽनित्यत्वादभावे “नाम्युपान्त्य ०" ५|१|५४ इति के तिलाः । उणादौ " कीचक० " ( उ० ३३ ) इत्यके निपातनात् तिलकम् । तिलत् स्नेहने [ ५/९१ ], तिलति ॥
6
, १२० जणू अपवारणे | जालयति । के जालकम् । अचि जालम् ।
अयं लजणू इति नन्दी, लाजयति । अचि लाजाः । जल घात्ये [ १९७३ ], जलति ॥
' १२१ क्षणू शौचे ' । शौच शौचकर्म । क्षालयति, क्षालितम् ॥
6
१२२ पुलण् समुच्छ्राये ' । पोलयति । पुल महत्त्वे [ १९८० ], पोलति । तुदादौ अप्ययं इत्येके, पुलति ॥
6
"
१२३ बिल भेदे ' । ओष्ठ्यादिः । वेलयति । उणादौ णिचोऽनित्यत्वादभावे " "विलिमिलि ० ( उ० ३४० ) इति किति मे विल्मं प्रकाशम् । " निघृषी ० " ( उ० ५११ ) इति किति वे बिल्वम् । भिल इति कौशिकः, भेलयति, भिल्मम् । बिलत् भेदने [ ५/९५ ], बिलति ॥
' १२४ तलणू प्रतिष्ठायाम् ' । तालयति, उत्तालयति । अचि तालः | स्वार्थे के तालिका | णिचोऽनित्यत्वात् तलति । अचि तलम् ॥
' १२५ तुलणू उन्माने ' । तोलयति । " भीषिभूषि० " ५।३।१०९ इत्यङि तोला | बाहुलकाद् “ णिवेत्ति० " ५|३|१११ इत्यने तोलना । णिचोऽनित्यत्वाद
46
१. बिलि इति मु० । उणादि विवरणे तु विलतू वरणे, विल्मं प्रकाशः ॥