________________
१०२ ] धातुपारायणे चुरादयः (९)
[३१७ '९० मिदण स्नेहने' । उदित्वाने मिन्दयति । अचि मिन्दः कुष्ठी । टान्तोऽयमित्येके, मिण्टयति । नायमुदिदिति कौशिकः, मेदयति ॥
"९१ गुर्दण निकेतने' । पूर्वनिकेतने इत्येके; पूर्वनिकेतनम् आद्यो निवासः । " म्वादेः " २।१।६३ इति दीर्घे, गूर्दयति । गुदि क्रीडायाम् [११७३४ ], गूर्दते ॥
९२ छर्दण् वमने ' । छर्दयति । उणादौ " पदिपठि० " (उ० ६०७) इति इः, छर्दिः; सान्तस्तु “रुच्यचि० " ( उ० ९८९) इति इसि कृणत्तेः । इह गर्दण् शब्दे इत्येके पेठुः, गर्दयति गर्दभः । भ्वादौ गर्दति । अयं गर्ने इत्यपरे ॥
अथ धान्ताः पञ्च ॥ +९३ बुधण् हिंसायाम् ' । उदिवाने बुन्धयति । ठान्तोऽयमित्यन्ये, बुण्ठयति ॥ '९४ वर्धण् छेदनपूरणयोः' । वर्धयति ॥ '९५ गर्धण् अभिकाङ्क्षायाम् ' । गर्धयति ॥
'९६ बन्ध ९७ बधण संयमने' । बन्धयति । बन्धश् बन्धने [ ८।४५], बध्नाति ।। '९७ वधण्' । बाधयति । डे अवीवधत् । बधि बन्धने [११७४६], वीभत्सते ।।
__ अथ पान्ता अष्टौ ॥ '९८ छपुण गतौ' । उदिच्चान्ने छम्पयति ॥ '९९ धपुण् क्षान्तौ ' । उदिचान्ने क्षम्पयति ॥
१०० ष्ट्रपण समुच्छाये'। "पः सो० " २।३९८ इति से स्तूपयति । षोपदेशत्वात् "णिस्तोरेवा०" २।३।३७ इति षे तुष्ट्रपयिषति । अोपदेशोऽयमित्यन्ये, तुस्तूपयिषति । स्तुपण इत्येके, स्तोपयति । ष्ट्रपच समुच्छाये [३५४ ], स्तूप्यति ॥
'१०१ डिपण क्षेपे' । डेपयति । डिपिण् संघाते [ ९।२६४ ], डेपयते ॥ '१०२ रुपण व्यक्तायां वाचि' । ह्रापयति ॥