________________
८२ ] धातुपारायणे चुरादयः (९)
[ ३१५ ग्रहणाद् एषु " घटादेः०" ४।२।२४ इति इस्वो नास्ति, णिचोऽनित्यत्वादभावपक्षे तु गिगि हस्वे श्रणयति । श्रण दाने [ १११०४२ ], श्रणति ॥ '७७ पूणण संघाते' । पूणयति ॥
__ अथ तान्ताः षट् ॥ ' ७८ चितुण स्मृत्याम् ' । उदित्वाने चिन्तयति । " णिवेत्ति०" ५।३।१११ इत्यनापवादे " भीषिभूषि०" ५।३।१०९ इत्यङि चिन्ता । भीष्यादिभ्योऽनापवादेऽप्रत्ययेऽपि गेलुंकि भीषादीनां सिद्धौ अविधानं गेलकोऽनित्यत्वज्ञापनार्थम् , तेन गेलुंगभावे " संयोगात्" २।११५२ इति इयि चिन्तिया । तथा
न यमेन न जातवेदसा, न कुबेरेण न वज्रपाणिना । 'मधवो युधि 'सुप्रकम्पया, श्वसनेनैव वसुन्धरापते ॥ __ अत्र सुप्रपूर्वात् कम्पः खलि गेलगमावे गुणेऽयादेशे च सुप्रकम्पया इति सिद्धम् । ज्ञापकेन च क्वचिदेव णिलुगभावो ज्ञाप्यते । आमादिषु तु सर्वत्राऽव्यभिचारी अयादेश इत्यामन्तेति वचनम् ॥
“७९ पुस्त ८० बुस्तण आदरानादस्योः' । पुस्तयति । अलि पुस्तं लेप्यकर्म । णके पुस्तकम् । अयं वन्दने इति चन्द्रः ॥
८० बुस्तण' । बुस्तयति । उणादौ " स्वरेभ्य० " (३० ६०६) इति इ., बुस्तिः शुष्कुली ॥
८१ मुस्तण संघाते' । मुस्तयति । अचि मुस्ता ॥
८२ कृतण संशब्दने' । संशब्दनं ख्यातिः । “ कृतः कीर्तिः " ४।४।१२२ कीर्तयति । उ " ऋद]वर्णस्य " ४।२।३७ इति कीयादेशाऽपवादे ऋतो वा ऋति अचीकृतत् , अचीकीर्तत् । “ सातिहेति०" ५।३।९४ इति निपातनादनाऽपवादे क्तो कीर्तिः । उणादौ " स्वरेभ्य" (उ० ६०६) इति इ., कीतिः ।।
१. माधवो इति रा० प्रतौ । २. सुप्रकम्ययाः इति हेमहंसगणिकृते न्यायार्थमञ्जूषायाः न्यासे (पृ. १८५ ) ॥
३. अनेन सूत्रेण तु 'स्वरान्तेभ्यः धातुभ्यः इ. प्रत्ययो भवति। कीर्तिशब्दस्तु "किलिपिलि."(उ०६०८) इत्यनेन साधितः ।।