________________
३१४]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ६६ '६६ मडुण् भूषायाम् ' । उदित्वान्ने मण्डयति । “भूषाक्रोधार्थ० " ५२।४२ इत्यने मण्डनशीलो मण्डनः । " युवर्ण०" ५।३।२८ इत्यलि मण्डः । "णिवेत्ति" ५३।१११ इत्यने मण्डना । मडु भूषायाम् [१।२३१ ], मण्डति । मडुङ् वेष्टने [ १६९२ ], मण्डते ॥
'६७ भडण कल्याणे' । उदित्वान्ने भण्डयति । “णिवेत्ति" ५।३।१११ इत्यने भण्डना । दान्तोऽयमित्यन्ये, भन्दयति । उणादौ णिचोऽनित्यत्वाद् भन्देन लुक् च वा (द्र० उ० ३९१) इति रकि भद्रं भन्द्रं च कल्याणम् । भडुङ् परिभाषणे [ ११६९३ ], भण्डते, मण्डः ।
६८ पिडुण संघाते' । उदित्वान्न पिण्डयति । पिडुङ संघाते [११६८४ ], पिण्डते, पिण्डः, पिण्डी । पडुण अयमित्येके, पण्डयति । पडुङ् गतौ [११६८२], पण्डते, पण्डितः, पण्डः, पण्डा ।।
'६९ ईडण् स्तुतौ' । ईडयति । ईडिक् स्तुतौ [ २।५६ ]; ईट्टे ॥
'७० चडुणू कोपे' । उदिवाने चण्डयति । अचि चण्डः । “न वा शोणादेः " २।४।३१ इति वा ङ्याम् चण्डी, चण्डा । चडुङ कोपे [ ११६९७ ], चण्डते, चण्डालः ॥
७१ जुड ७२ चूर्ण ७३ वर्णण प्रेरणे' । प्रेरणं दलनम् । जोडयति, लत्वे जोलयति । क्ते जोडितम् ॥
___ अथ णान्ताः षट् ॥ '७२ [ चूर्णण ] ' । चूर्णयति । अचि चूर्णः। उणादौ " स्वरेभ्य०" ( उ० ६०६) इति इ., चूर्णिः ।।
'७३ [वर्णण ] । वर्णयति । " णिवेत्ति० " ५।३।१११ इत्यने संवर्णना ॥
'७४ चूण ७५ तूणण संकोचने ' । चूणयति । " युवण" ५।३।२८ इत्यलि चूणः । तूणयति । "युवर्ण०" ५।३।२८ इत्यलि तूणः । उणादौ " जम्बीराभीर०" ( उ० ४२२ ) इति ईरे तूणीरः ॥
'७६ श्रणण दाने'। श्राणयति । "णिवेत्ति" ५।३।१११ इत्यने विश्राणना । क्लीवेऽनटि विश्राणनम् । “भीषिभूषि० " ५।३।१०९ इत्यत्र बहुवचनादनापवादे अङि श्राणा यवागूः । “यमोऽपरिवेषणे० " ४।२।२९ इत्यत्र णिचो