SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ६५ ] धातुपारायणे चुरादयः (९) [३१३ अथ डान्ताः सप्तदश ॥ '५५ लडण उपसेवायाम् ' । लाडयति । डस्य लत्वे उपलालयति । लड विलासे [ १।२५४ ], लडति । जिह्वोन्मन्थने घटादित्वाद् णिगि हुस्वे लडयति ॥ '५६ स्फुडण् परिहासे' । उदित्वान्ने स्फुण्डयति । णके स्फुण्डिका ॥ '५७ ओलडुण उत्क्षेपे' । उदिवान्ने ओलण्डयति । “ सेटक्तयोः" ४।३८४ इति णे कि ओलण्डित:, ओलण्डितवान् । ओदिदयमित्यन्ये; तन्मते लण्डयति । णिजिटोरनित्यत्वात् “ सूयत्यादि." ४।२।७० इति क्तयोस्तस्य नत्वे लण्डणः, लण्डणवान् । ओदित्करणबलात् णिज्व्यवायेऽपि नत्वमित्यन्ये; लण्डिनः, लण्डिनवान् । 'लदुण् अपि इति चान्द्राः; अवलन्दयति उष्ट्रम् ॥ '५८ पीडण गहने ' । गहनं बाधा । पीडयति । डे " भ्राजभास." ४।२।३६ इति वा हस्वे अपीपिडत् , अपिपीडत् । “ भीषिभूषि०" ५।३।१०९ इत्यत्र बहुवचनादङि पीडा । अवगाहने इत्यन्ये । तिलपीलकः ॥ ____ ५९ तडण आघाते' । ताडयति । उणादौ णिचोऽनित्यत्वादभावे "शलिबलि. " ( उ० ३४ ) इति आके तडाकं सरः । तिन्तिडीक इति तु "सृणीका." ( उ० ५० ) इति ईके निपातनात् तिमः । “ तडेरागः" ( उ० ९७ ) तडागं सरः । “ हुसृरुहि०" ( उ० ८८७) इति इति तडित् । “कमिवमि०" (उ० ६१८ ) इति णिदिः, ताडिः ।।। '६० खड ६१ खड्डुण भेदे' । खाडयति ॥ '६१ खडण्' । उदित्वान्ने खण्डयति ॥ '६२ कडुण् खण्डने च' । चकाराद् भेदे । उदिवान्ने कण्डयति । खुडण्, खण्डने इत्येके, खुण्डयति, खुण्डितः ॥ '६३ कुडुण् रक्षणे' । उदित्त्वान्ने कुण्डयति । कुडुङ् दाहे [११६९०], कुण्डते ॥ '६४ गुडुण् वेष्टने च' । चकाराद् रक्षणे । उदित्वान्ने गुण्डयति ॥... '६५ चुडुण छेदने' । उदिवाने चुण्डयति ॥ १. तुलना:-चान्द्रा लदिमप्याहुः, (क्षी. त. पृ. २८०) ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy