________________
-
-
-
३१२]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३९ '३९ लुण्टण स्तेये च' । चकारादनादरे । लुण्टयति । " वृङ्भक्षि०" ५।२७० इति टाके लुण्टाका, लुण्टाकी । णिजभावे "क्तेटो" ५।३।१०६ इत्यः, लुण्टा ॥
'४० स्निटण स्नेहने' । स्नेटयति ॥
'४१ घट्टण चलने' । घट्टयति । अलि संघट्टः । “णिवेत्ति० " ५।३।१११ इत्यने घट्टना । "पुंनाम्नि" ५।३।१३० इति करणाधारे घे घट्टः नद्यवतरणस्थानम् , अचि अरघट्टः । घट्टि चलने [१६६८ ], घट्टते ।
'४२ खट्टण संवरणे' । खट्टयति मुखम् ॥ ___ '४३ षट्ट ४४ स्फिटण हिंसायाम् ' । “प: सो० " २।३।९८ इति से सट्टयति । पोपदेशत्वाद् "णिस्तोरेवा०२३॥३७ इति षत्वे सिषयिषति । णके सट्टकः । अयं बलदाननिकेतनेष्वपि इत्यन्ये । स्फेटयति, णके स्फेटकः "पुनाम्नि." ५।३।१३० इति घे स्फेटः संस्फेटश्च तुमुलयुद्धम् । स्फिटण अनादरे इत्यन्ये । । '४५ स्फुटुण परिहासे' । उदित्चाने स्फुण्टयति । अयं स्फुटण इत्येके, स्फोटयति ॥
'४६ कीटण वर्णने' । बन्धे इत्यन्ये । कीटयति । अचि कीटः ॥
४७ वटुण विभाजने' । उदिवाने वण्टयति । डान्तोऽयमित्येके, वण्डयति। . अचि वण्ड: । वटु विभाजने [१।२०५ ], घण्टति ॥ - ४८ रुटण रोपे' । रोटयति । अणि ग्रामरोटः । रुटु स्तेये [१।२०६], रुष्टति ॥
'४९ शठ ५० श्वठ ५१ श्वठुण संस्कारगत्योः' । शाठयति । शठ कैतवे च [११२२२ ), शठति । अचि शठः । श्वाठयति ॥ .. ' ५१ श्वठुण' । उदित्चान्ने श्वण्ठयति ॥
'५२ शुठण आलस्ये' । शोठयति । शुठ गतिप्रतीघाते [११२२३], शोठति ॥
'५३ शुठुण शोषणे' । उदित्याने शुण्ठयति । अचि शुण्ठः । गौरादित्वाद् याम् शुष्ठी । शुटु शोषणे [ ११२२६ ], शुण्ठति ॥ . ५४ गुठण वेष्टने ' । उदिवाने गुण्ठयति । " णिवेत्ति०" ५।३।१११ इति अने गुण्ठना । ते अवगुण्ठितः ।।