________________
३७ ] धातुपारायणे चुरादयः (९)
[ ३११
इति सनि तितिक्षते, निशाने तु तेजते । उणादौ “ अस्" ( उ० ९५२ ) इति असि तेजः ॥ ___ २३ वज २४ व्रजण मार्गणसंस्कारगत्योः' । मार्गणः बाणः, तस्य संस्कारे गतौ च । मार्गसंस्कारेऽपीत्यन्ये । वाजयति, बाजयति । वज, ब्रज गती [१३१३६, १३७ ], वति, व्रजति ॥ ___ '२५ रुजण् हिंसायाम् ' । रोजयति, रोजयांचकार ॥
- अथ टान्तास्त्रयोविंशतिः ॥ "२६ नटण अवस्यन्दने' । अवस्यन्दनं भ्रंशः । " जासनाट." २।२।१४ इति कर्मणो वा कर्मत्वे " शेषे” २।२।८१ इति षष्ठयां चोरस्योबाटयति । णके नाटकम् । णट नृतौ [ १११८७], नटति, नतो घटादित्वाद् हस्वे नटयति शाखाम् । नतेरन्यत्र घटादित्वाभावे नाटयति नटम् । नड इति नन्दी । नडः नाडी, प्रणालः, प्रणाली ॥
' २७ तुट २८ चुट २९ चुटु ३० छुटण् छेदने' । तोटयति, चोटयति । उदिचान्ने चुण्टयति । छोटयति, आच्छोटयति । " नाम्नि पुंसि च" ५।३।१२१ इति णके छोटिका,, अनटि आच्छोटनम् । छुटत् छेदने [५।१२२ ], छुटति ॥
'३१ कुट्टण कुत्सने च' । चकारात् छेदने । कुट्टयति । " वृभक्षि" ५।२।७० इति टाके कुट्टाकः, इक्षुकुट्टाकः, कुट्टाकी । अलि कुट्टः । रम्यादित्वात् कर्तरि अनटि कुट्टनी । उणादौ " कुट्टिवेष्टि" ( उ० ३४९) इति इमे कुट्टिमं संस्कृतभूतलम् ।।
'३२ पुट्ट ३३ चुट्ट ३४ षुट्टण अल्पीभावे'। पृट्टयति, चुट्टयति, "षः सो." २१३१९८ इति से सुट्टयति । पोपदेशत्वाद् “णिस्तोरेवा." २॥३॥३७ इति पे सुषुट्टयिषति । अपोपदेशोऽयमनादरार्थश्चत्यन्ये; तन्मते षत्वाभावे सुसुट्टयिषति ॥
'३५ पुट ३६ मुटण संचूर्णने ' । पोटयति, अचि पोटा। भासार्थेऽपि वक्ष्यते । पुटत् संश्लेषणे [५।१२७], पुटति ॥
___'३६ मुटण' । मोटयति, अनटि मोटनम् । मुटत् आक्षेपप्रमर्दनयोः [५।१२५ ], मुटति ॥
___ '३७ अट्ट ३८ स्मिटण अनादरे' । अट्टयति । अलि अट्टः । अचि अट्टा, अट्ठां करोति इति क्यङि अट्टायते । स्मेटयति । अषोपदेशत्वात् पत्वाभावे सिस्मेटयिषति । अट्ट अल्पीभावे इत्येके ।।