________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १४
-
अथ छान्तः ॥ '१४ म्लेछण म्लेच्छने ' । म्लेच्छनम् अव्यक्ता वाक् । म्लेच्छयति । म्लेच्छ अव्यक्तायां वाचि [ ११११९], म्लेच्छति ॥
अथ जान्ता एकादश ॥ '१५ ऊर्जण् बलप्राणनयोः' । प्राणनं जीवनम् । ऊर्जयति । “दिद्युद्" ५।२२८३ इति क्विपि ऊर्छ । "शत्सः" २०११९० इति नियमादत्र संयोगान्तलुक् नास्ति । ऊर्ग अस्यास्ति इति “ ऊर्जा विन्वलावश्चान्तः " ७।२।५१ ऊर्जस्वी, ऊर्जस्वलः । भिदाधङि ऊर्जा । क्ते ऊर्जितम् ॥
'१६ तुजु १७ पिजुण हिंसाबलदाननिकेतनेषु'। निकेतनं गृहम् । उदित्वान्ने तुअयति, पिनयति । उणादौ "ऋच्छिचटि०" (उ० ३९७) इति अरे पिञ्जरः । " पिअिमझि०" ( उ० ४८८ ) इति ऊले पिञ्जूलः हस्तिबन्धनपाशः । लुजुमप्येके पेटुः, लुञ्जयति । लोक-तर्केति दण्डकेऽनयोः पुनः पाठः अर्थभेदार्थः आत्मनेपदार्थः सकर्मकार्थश्च, तुञ्जयते, पिञ्जयते । तुजु बलने च [ १११६२ ], तुओत, पिजुकि संपर्चने [ २।५२ ], पिङ्क्ते ।।
'१८ क्षजुण् कृच्छ्रजीवने' । उदित्वान्ने क्षमयति । क्षजुङ् गतिदानयोः [१११००१] क्षमते । घटादित्वाद् अिणम्परे णौ वा दीर्घ अक्षाञि, अक्षञ्जि ।
'१९ पूजण् पूजायाम् ' । पूजयति । " य एच्चा०" ५।१।२८ इति ये पूज्यम् । णके पूजकः । याजकादित्वात् “ कर्मजा तृचा च" ३१८३ इति प्रतिषिद्धोऽपि षष्ठीसमासः, गुरूणां पूजकः गुरुपूजकः । “ज्ञानेच्छा!" ५।२।९२ इति सति ते "क्तयोरसदा." २।२।९१ इत्यत्र सदर्थस्य वर्जनात् प्रतिषेधाभावे "कर्तरि" २।२।८६ इति षष्ठयां राज्ञां पूजितः । “ज्ञानेच्छा ०" ३११८६ इति प्रतिषेधाचात्र न षष्ठीसमास: । " भीषीभूषि०" ५।३।१०९ इति अङि पूजा॥ ___'२० गज २१ मार्जण शब्दे' । गाजयति, मार्जयति । मर्चमर्जावपि एके पठन्ति; मर्चयति, मर्जयति, मर्जिता ॥
२२ तिजण निशाने ' । तेजयति । तेजयामास । “णिवेत्ति० " ५।३।१११ इति अने तेजना । तिजि क्षमानिशानयोः [ १६६६७ ], "गुप्तिजो० ॥ ३४५
१. घस्वान्त इति मु०॥