________________
१३ ] धातु पारायणे चुरादयः (९)
[ ३०९
अथ ऋदन्तौ ॥ '२ पृण पूरणे' । स्वार्थे णिचि पारयति । क्ये पार्यते । " धातोरनेकस्वराद्" ३२४४६ इति आमि पारयांचकार । " साहिसाति०" ५।११५९ इति शे पारयः । ऋदन्तोऽयमित्येके । पूंक पालन पूरणयोः [ २१७६ ] पिपति । पृङ्त् व्यायामे [ ५।१५१ ], व्याप्रियते ॥
'३ घृण स्रवणे' । धारयति, घारयामास । धू सेचने [ १।२० ], घरति घृतम् । घृ सू आवरणे इति पूर्वे पेठुः ॥
अथ कान्ता अष्टौ ॥ ...४ श्वल्क ५ वल्कण भाषणे' । श्वल्कयति, श्वल्कयांचकार ॥
'५ वल्कण' । वल्कयति, वल्कयांचकार । अलि वल्कः त्वरुत्वक् । वल्कलम् इति तु वलेः कलकि ॥ ... '६ नक ७ धक्कण नाशने' । नक्कयति, धक्कयति ॥
८ चक्क ९ चुक्कण् व्यथने ' । चक्कयति । उणादौ " मुरल० " (उ० ४७४) इति निपातनादले चक्कलम् , चक्कलकम् ॥
___ '९ चुकण' । चुक्कयति । अचि अलि वा चुकः । चिक्क इति कौशिकः । चिक्कसम् चिकणम् ॥ . १० टकुण बन्धने ' । उदित्वान्ने टयति, अलि विटङ्कः । "पुनाम्नि." ५।३।१३० इति घे टङ्कः दृषद्दारणः, अनटि टङ्कनम् । “णिवेत्ति" ५।३।१११ इति अने टकना ॥ ____ ११ अर्कण स्तवने ' । अर्कयति । अचि अलि वा अर्कः ॥
___ अथ चान्तौ ॥ १२ पिच्चण कुट्टने ' । पिञ्चयति । पिचुः इति तु " परिश्चातः" ( उ० ७३५) इति पचे: औ रूपम् ||
__ १३ पचुण् विस्तारे' । उदित्त्वान्ने प्रपञ्चयति, अलि प्रपश्चः । पचुङ् व्यक्तीकरणे [ ११६५७ ] पश्चते । “ नाम्नि पुंसि च" ५।३।१२१ इति णके पश्चिका । अचि गौरादित्वाद् ड्याम् विपश्ची । घनि न्यक्वादित्वात् कत्वे पङ्कः ।।