________________
३०२ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३८
अथ डान्तः सेट् च ॥ '३८ मृडश सुखने' । " तवर्गस्य० ॥ १।३।६० इति नो णे मृडणाति । " व्यञ्जनात्० " ३।४।८० इति श्नाहेः आने मृडानः । ममर्ड, मर्डिता, मृडितः । " क्षुधक्लिश" ४३३१ इति क्त्व: किल्वे मृडित्वा । " नाम्युपान्त्य०" ५।१।५४ इति के मृडः । उणादौ “ऋच्यजि० " ( उ० ४८) इति किति ईके 'मृडीकः सुखकृत् । मृडत् सुखने [५।४४ ], मृड ति ॥
अथ थान्ताश्चत्वारः सेटश्च ॥ '३९ श्रन्थश् मोचनप्रतिहर्षयोः' । “नो व्यञ्जनस्या०" ४।२।४५ इति नलुकि श्रध्नाति, श्रथान । कर्मकर्तरि “एकधातौ०" ३।४।८६ इति जिक्यात्मनेपदेषु प्राप्तेषु किरादित्वात् “भूषार्थ" ३।४।९३ इति क्यञ्योरभावे श्रथ्नीते माला स्वयमेव । अश्रन्थिष्ट माला स्वयमेव । शश्रन्थ । “ वा अन्य०" ४।१२७ इति अत ऐत्वे, द्वित्वाभावे नो लुकि च अंथतुः, श्रेथुः, श्रेथिथ; पक्षे शश्रन्थतुः, शश्रन्थुः । “ स्क्रसृवृ०" ४।४।८१ इति इटि शश्रन्थिय । श्रन्थिता, श्रन्थितुम् , श्रथितः, श्रथितवान् । " दशनावोद०" ४।२।५४ इति निपातनाद् नलुकि घनि प्रश्रयः, हिमश्रथः । " णिवेत्ति०" ५।३।१११ इत्यने श्रन्थना । “ऋत्तष० " ४।३।२४ इति क्त्वो वा कित्त्वे, श्रथित्वा, श्रन्थित्वा । श्रथुङ् शैथिल्ये [११७१७], श्रन्थते । श्रन्थण सन्दर्भ [९।३९२ ], " युजादेः " ३।४।१८ इति वा. णिवि श्रन्थयति, श्रन्थति ॥
__४० मन्थन् विलोडने ' । मध्नाति । हो मथान । ममन्थ, मन्थिता, मन्थितुम् , मथितः, मथितवान् । “ऋतुष०" ४।३।२४ इति क्त्वो वा किल्वे मथित्वा, मन्थित्वा । घजि मन्थः । उणादौ " संस्तुस्पृशिमन्थेरानः " (३० २७६) मन्थानः खजकः । मन्थ हिंसासंक्लेशयोः [ १।२९२ ], मन्थति ॥
४१ ग्रन्थ सन्दर्भ' । सन्दर्भो बन्धनम् । अनाति । हौ प्रथान । कर्मकर्तरि “ एकधातौ०" ३४८६ इति जिक्याऽऽत्मनेपदेषु प्राप्तेषु "भूषार्थ." ३।४।९३ इति क्यञ्योरभावे ग्रनीते माला स्वयमेव, अग्रन्थिष्ट माला स्वयमेव । जग्रन्थ । " वा श्रन्थ० " ४।१।२७ इति अत एत्वे द्वित्वाभावे नो लुकि च ग्रेथतुः, ग्रेथुः । " स्क्रसृवृ०" ४४८१ इति इटि ग्रेथिथ; पक्षे जग्रन्थतुः, जग्रन्थुः,
१. मृडोकम् इति उणादि विवरणे ॥