________________
आचार्यश्रीहेमचन्द्रविरचिते [धा० ३०
अचि नरः । स्त्रियां " नारी-सखी०" २१४७६ इति निपातनाद् ङ्याम् नारी । णौ घटादित्वाद् हस्वे नरयति ॥
३१ गश शब्दे ' । " प्वादेः" ४।२।१०५ इति हस्वे गृणाति । जगार । " स्कृच्छ्रतो०" ४।३।८ इति गुणे जजन्तुः, जजरुः । “ वृतो नवा" ४।४।३५ इति इटो वा दीर्घ गरिता, गरीता। किति "ऋवर्णश्रि" ४४५७ इति नेट , " ऋल्वादे:०" ४।२।६८ इति तो ने गीर्णः, गीर्णवान् , गीणिः । “युवर्ण०" ५।३।२८ इत्यलि गरः । उणादौ " कुन ऋत उर च" ( उ० ७३४) इति उः, गुरुः । गृत् निगरणे [ ५।२१ ], गिरति ॥ _ '३२ ऋश गतौ' । " वादे:०" ४।२।१०५ इति इस्वे ऋणाति । क्ये ईर्यते । आर, आरतुः । " वृतो नवा०" ४४३५ इति इटो वा दीपं अरिता, अरीता । किति "ऋवर्णश्रि० " ४।४।५७ इति नेट् , “ ऋल्यादेः०" ४।२।६८ इति तो ने समीर्णः, समीर्णवान् , समीणि: । " इवृध० " ४।४।४७ इति सनि वेट , अरिरिषति, अरिरीषति । इडभावपक्षे इरादेशे दीर्घत्वे सनो द्वित्वे, पूर्वस्य इत्वे, द्वयोः पत्वे च ईषिषति ॥ वृत् प्वादिः । ल्वादिः । प्वादिादिश्च वृत् वर्तितः, संपूर्ण इत्यर्थः ॥
अथ परस्मैपदिष्वेवाऽऽदन्तोऽनिट् च । ___ '३३ ज्ञांश अवबोधने' । " जा ज्ञा०" ४।२।१०४ इति जाऽऽदेशे जानाति । फलवकर्तरि "ज्ञोऽनुपसर्गात् " ३।३।९६ इत्यात्मनेपदे धर्म जानीते । “पदान्तरगम्ये वा" ३।३।९९ स्वां गां जानीते, जानाति वा । उपप्तर्गात्तु " शेषात् " ३।३।१०० इति परस्मैपदे अवजानासि माम् । “निह्नवे ज्ञः " ३।३।६८ शतम् अपजानीते । “संप्रतेरस्मृतौ” ३३१६९ " समो ज्ञो०" २।२।५१ इति व्याप्ये वा तृतीयायां मात्रा संजानीते, मातरं संजानीते, नित्यं शब्दं प्रतिजानीते । "अननोः सनः " ३३।७० धर्म जिज्ञासते । अनोस्तु, पुत्रम् अनुजिज्ञासति पाठाय । कर्मण्यसति ज्ञः “अज्ञाने” २।२।८० इति करणे षष्ठयां सर्पिषो जानीते, सर्पिषा करणभूतेन प्रवर्तते इत्यर्थः । जज्ञे. जज्ञौ । “संयोगादेर्वाऽऽशिष्यः" ४।३९५ ज्ञेयात् , ज्ञायात् अङिति तु ज्ञासीष्ट । अनुस्वारेवान्नेट , ज्ञाता, ज्ञातुम् । “ ज्ञानेच्छा०" ५।२।९२ इति सति क्ते ज्ञात: । णौ " मारणतोषण" ४।२।३० इति इस्वे संज्ञपयति पशुम् , विज्ञपयति गुरुम् , ज्ञपयति शस्त्रम् । अन्यत्र ज्ञापयति । " इवृध." ४।४।४७ इति सनि वेद, जिज्ञपयिषति; पक्षे