________________
२५ ] धातुपारायणे यादयः (८)
[२९७
ऊर चान्तस्य" ( उ० २९८ ) इति पे शूर्पो धान्यपवनभाण्डम् । “कृशगृ०" (उ० ३२९ ) इत्यमे शरभः । " अर्तीरि०" ( उ० ३३८) इति मे शर्म सुखम् । “ धाग्राजि० " ( उ० ३७९ ) इत्यन्ये शरण्यः त्राता । “ कृशप ०" ( उ० ४१८ ) इतीरे शरीरम् । " श्वसुरकुकुन्दुर० " ( उ० ४२६ ) इत्युरे निपातनात् शर्कुरः तरुणः । “ कुशवृभ्यः करः” (उ० ४३५) शर्करः, शर्करा । " कृगश० " ( उ० ४४१ ) इति वरटि शर्वरो रुद्रः, शर्वरं तमः, शर्वरी रात्रिः । "श्री नोऽन्तो हस्वश्च " ( उ० ४९८ ) इति खले शृङ्खला । " लटिखटि० " (उ० ५०५) इति वे शौं रुद्रः । " शणातेराव:" (उ० ५२०) शराकः । " ऋजिश. " ( उ० ५५४ ) इति कितीषे शिरीषः । " नाम्युपान्त्य० " ( उ० ६०९) इति किदिः, शिरिः हिंस्रः । “कुशकुटि०" ( उ० ६१९ ) इति वा णिदिः, शारिः यतोपकरणं-हस्तिपर्याण-शारिका च । शरिः हिंसा । "ऋद्धृमृ०" ( उ० ६३५ ) इति किति णौ शीणिः रोगः । “नीसावृ० " ( उ० ६८७) इति मौ शर्मिः मृगः । “कुन्द्रि०" ( उ० ६९५) इति से निपातनात् शरारिः आति: । " शस्तृ०" ( उ० ७०५) इति ङिति वो शीविः हिंस्रः । "भृमृत० " ( उ० ७१६) इत्युः, शरुः शरः हिस्रश्च । " उवर्ण०" ७।१।३० इति ये शरवे हितं शरव्यं वेध्यम् । “किमः श्री णित् " ( उ० ७२५) इत्युः, किंशारु: 'धान्यशूकम् । “ऋतशम्भ्रादिभ्यो रो लश्च" ( उ० ७२७) शालुः कषायः। " पराभ्यां शखनिभ्यां डित् " ( उ० ७२४ ) परशुः । शिग्रुः इति तु “शिग्रुगेरु०" ( उ० ८११ ) इति रौ निपातनात् शिनोतेः । कशेरूः इत्यपि “काच्छीडा डेरू:" (उ० ८५१) इति शेतेः । “ शुद० " ( उ० ८९४ ) इत्यदि शरत् । “मन्" (उ० ९११) इति मनि शर्म सुखम् । “मिथिरक्षी० " ( उ० ९७१ ) इति कित्यसि शिरः ॥
२५ पृश् पालनपूरणयोः' । " प्वादेः०" ४।२।१०५ इति इस्वे पृणाति । पपार । " ऋः शूदप्रः" ४।४।२० निपप्रतुः, निपाः; पक्षे “स्कृच्छ्रतो." ४।३।८ इति गुणे निपपरतुः, निपपरुः " वृतो नवा०" ४।४।३५ इति इटो वा दीर्धे परिता, परीता । किति "ऋवर्णश्रि०" ४।४।५७ इति नेट् , “ ऋल्वादेः०" ४।२।६८ इत्यत्र प्रो वर्जनात् तो नत्वाभावेः पूत, पूर्तवान् , पूर्ति: । " णौ दान्तशान्त०" ४।४।७४ इति ते वा निपातनमस्याऽपीत्येके, पूर्णः, पारितः । अस्मादेव
१. धान्यशूखम् इति मु० ॥ 3८