________________
२९६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० २२
" वृतो नवा०" ४।४।३५ इति इटो वा दी, करिता, करीता । किति "ऋवर्णश्रि० " ४।४।५७ इति नेट् , "ऋल्वादेः० " ४।२।६८ इति तो ने कीर्णः, कीर्णवान् , कीणिः । “ इवृध०" ४।४।४७ इति सनि वेट् चिकरिषति, चिकरीषति, चिकीर्षति, उभयपदिष्वधीतोऽप्ययं फलवकर्तरि परस्मैपदार्थमिह पठितः । कृत् विक्षेपे [ ५।२० ], किरति ॥
'२३ मृ' । " प्वादेः०" ४।२।१०५ इति ह्रस्वे मृणाति । ममार । " स्कृच्छतो." ४।३।८ इति गुणे ममरतुः । “वृतो नवा०" ४।४।३५ इति इटो वा दीर्घ मस्तिा, मरीता । किति “ ऋवर्णश्रि" ४।४।५७ इति नेट् , "ऋल्वादे: " ४।२।६८ इति तो ने मूर्णः, मूर्णवान् , मूर्णिः । उणादौ "म्र उत्" (उ० ८८९) 'मरुत् ॥
'२४ शृश्' । " प्वादेः " ४।२।१०५ इति इस्वे शणाति । क्ये शीर्यते । विशशार । "ऋः शूदृप्रः " ४।४।२० विशश्रतुः, विशश्रुः; पक्षे "स्कृच्छतो." ४।३।८ इति गुणे विशशरतुः, विशशरुः । " वृतो०" ४।४।३५ इति इटो वा दी विशरिता, विशरीता । किति "ऋवर्णश्रि०" ४।४।५७ इति नेट् , " अल्वादेः०" ४।२।६८ इति तो ने शीर्णः, शीर्णवान् , शीणिः । अचि शरः । " शबन्देः०" ५।२३५ इत्यारौ शरणशीलः शरारु: । " शकम०" ५।२।४० इति उकणि विशारुकः । “घुनाम्नि०" ५।३।१३० इति घे शृणन्ति तेन शरः । "श्री वायु०" ५।३।२० इति घञि शारो वायुः वर्णश्च; नीशागे हिमानिलापहं 'वस्त्रम् । गौरिवाकृतनीशारः, प्रायेण शिशिरे कृशः' ॥
उणादौ " किच्च" (उ० १०) इति किद् अ धातोश्च सरूपद्वित्वम् , शिशिरः । " जपढ० " ( उ० ४७ ) इतीके द्वित्वे रे चाऽऽदौ शर्शरीकः क्रिमिः, शर्शरीका माङ्गल्याभरणम् । “ शृङ्ग" ( उ० ९६ ) इति गे निपातनात् शृङ्गं विषाणम् , शाङ्गः पक्षी। " पतितमि० " ( उ० ९८ ) इत्यङ्गे शरङ्गः। "अनिश०" ( उ० १४५ ) इत्याटे शराट: शकुन्तः, शृङ्गाट इति तु " कपाट." ( उ० १४८) इत्याटे निपातनात् श्रयतेः । “ मृजश०" ( उ० १६७) इत्यठे शरठः आयुधम् । "जकत० " ( उ० १७३ ) इत्यण्डे शरण्डः । " तृकश ० " ( उ० १८७ ) इत्यणे शरणं गृहम् । “परात् श्री डित् " ( उ० २५५ ) इति वधे परश्वधः । “कृशसभ्य
१. उणादि विवरणे तु मृत प्राणत्यागे इत्यस्माद् धातो: 'मरुत्' शब्दः साधितः ॥