SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ८] धातुपारायणे तनादयः (७) [ २८७ इति रस्य प्रतिषेधे " स्वरादेः०" ४।१।४ इति ने: एव द्वित्वे अणिनिषति । अदिचात् क्त्वि वेट , “यमिरमि० " ४।२।५५ इति नलुकि ऋत्वा । इटि " क्त्वा" ४।३।२९ इति किवाभावाद् गुणे अर्णित्वा । वेदत्वात् क्तयोर्नेट् , ऋतः, ऋतवान् । तो ऋतिः ॥ ६ तृणूयी अदने' । अदाने इत्यन्ये । “ रपृवर्णात्० " २।३।६३ इति नस्य णत्वे तणुते, तर्णोति, ततृणे, ततर्ण, तर्णिता, तर्णितुम् । ऊदिचात् क्त्वि वेट , “ यमिरमि० " ४।२।५५ इति नलुकि तृत्वा । इटि " क्त्वा" ४।३।२९ इति कित्त्वाभावे तर्णित्वा । वेट्त्वात् क्तयोर्नेट , तृतः, तृतवान् । “तिकृतौ०" ५।१।७१ इति तिकि “न तिकि०" ४।२।५९ इति दीर्घ नलुकोः अभावे " म्नां०" १।३।३९ इति णत्वापवादे नस्य ने तृन्तिः । क्तौ तृतिः ॥ '७ घृणूयी दीप्तौ'। " लघोः" ४३।४ इति गुणे " रघुवर्णात." २।३।६३ इति नस्य णे घणुते, पर्णोति, जघृणे, जघर्ण, घर्णिता, घर्णितुम् । अदिचात् क्वि वेट , " यमिरमि० " ४।२।५५ इति नलुकि घृत्वा । इटि " क्त्वा" ४।३।२९ इति किवाभावे घर्णित्वा । वेट्त्वात् क्तयोर्नेट , घृतः, घृतवान् घृतम् । “तिकतौ० " ५।११७१ इति तिकि "न तिकि०" ४।२।५५ इति दीघ नलुकोरभावे "म्नां०" ११३।३९ इति नस्य णापवादे ने घृन्तिः । णान्तोऽयमित्येके, तन्मते " तवर्गस्य ०" १।३।६० इति तस्य टे घण्टिः । " नाम्युपान्त्य०" ५।११५४ इति के घृणा । तो घृतिः । उणादौ " नाम्युपान्त्य०" ( उ० ६०९) इति किद् इः, घृणिः । उविकरणे ऋणू-तृणू घृणूधातूनां गुणं नेच्छन्त्येके; ऋणुते, ऋणोति; तृणुते, तृणोति; घृणुते, घृणोति । अकारोपान्त्यो णान्तश्चायमिति शिवः; घणोति, जघाण; घतः, घतवान् । तिकि घण्टिः ।। - अथात्मनेपदिनौ नान्तौ सेटौ च ॥ ___ ८ वयि याचने ' । इदिवाद् " इङितः०" ३३ २२ इत्यात्मनेपदे वनुते । “अनादेशादेः०" ४।१।२४ इति एत्वस्य " न शस-दद." ४।१।३० इति प्रतिषेधे ववने । वनिता, वनितुम् । अदिच्चात् क्त्वि वेट , “ यमिरमि०" ४।२।५५ इति नलुकि वत्वा, इटि वनित्वा । वेट्त्वात् क्तयोर्नेट , वतः, क्तवान् । णौ “कगेवनू०" ४।२।२५ इति हूस्वे अववनयति, संवनयति । अनुपसगस्य तु “ज्वल-बल." ४।२।३३ इति वा हस्वे वानयति, वनयति । “तिकृती" ५।१७१ इति तिकि " न तिकि०" ४।२।५५ इति दीप नलुकोः अभावे वन्तिः ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy