________________
१९ ] धातुपारायणे रुषादयः (६)
[ २८३ इति नस्य द्वित्वाभावे " स्वरादेः० " ४११४ इति देरेव द्वित्वे उन्दिदिषति । ऐदित्वात् क्तयोर्नेट् , “ ऋडी० " ४।२।७६ इति क्तयोस्यस्य वा नत्वे समुन्नः, समुन्नवान् , समुत्तः, समुत्तवान् । “ दशनावोद०" ४।२।५४ इति निपातनाद् घनि अबोदः । मनि औद्म, ओद्मनी । उणादौ "ध्रधृन्दि०" ( उ० २९) इति कित्यके उदकम् । “ उन्दैनलुक् च" ( उ० २७१ ) इत्यने ओदनः । " ऋज्यजि० " ( उ० ३८८) इति किति रे उद्रः ऋषिः । समुन्दन्ति' आर्दीभवन्ति वेलाकाले नद्यः अस्मात् इति समुद्रः । इन्द्र । इति तु " भीवृधि०" ( उ० ३८७) इति रे इन्दतेः । “ मृधुन्दि०" (उ० ३९९) इति कित्यरे उदरम् । “वाश्यसि०" ( उ० ४२३) इत्युरे उन्दुरः । “ऋजिरिपि." ( उ० ५६७ ) इति किति से उत्सः प्रस्रवणम् ॥
__ अथ षान्तावनिटौ च ॥ '२० शिष्लँप् विशेषणे' । विशेषणं गुणान्तरोत्पादनम् । शिनष्टि, विशिनष्टि । क्ये विशिष्यते । विशिशेष । लदित्वाद् अङि अशिषत् । अनुस्वारेच्चान्नेट , शेष्टा, शेष्टुम् , शिष्टः । “ ऋवर्ण० " ५।१।१७ इति घ्यणि विशेष्यः । कर्मणि आत्मनेपदे " हशिटो०" ३।४।५५ इति सकि व्यशिक्षन्त । पनि विशेषः । विनयादित्वात् स्वार्थे इकणि वैशेषिकः । शिषण असर्वोपयोगे [ ९।४१०], युजादित्वाद् वा णिचि शेषयति । अलि विशेषः । पक्षे शेषति । धनि शेषः ।।
२१ पिल्लंप संचूर्णने'। “जासनाट" २।२।१४ इति वा कर्मणः कर्मत्वे. " शेषे” २।२८१ इति षष्ठयां चौरस्य पिनष्टि, चौरं पिनष्टि । हिंसार्थाद् अन्यत्र धानाः पिनष्टि । पान्तत्वाद् " अकखाद्य० ॥ २॥३१८० इति नेर्वा णत्वाभावे प्रनिपिनष्टि । पिपेष । लदित्वादङि अपिषत् । कर्मणि आत्मनेपदे "हशिटो." ३।४।५५ इति सकि अपिक्षन्त । अनुस्वारेचानेट , पेष्टा, पेष्टुम् , पिष्टः । घजि निष्पेषः । “शुष्कचूर्ण" ६४।६० इति णमि शुष्कपे पिनष्टि । एवं चूर्णपेषम् , रूक्षपेषम् । “ स्वस्नेहनार्थात् ०" ५।४।६५ इति णमि तैलपेष पिनष्टि । उणादौ " पिषेः पिपिण्यौ च" ( उ० ३६ ) इत्याके पिनाकं रुद्रधनुः, पिण्याकः तिलखलः ॥
अथ सान्तः सेट् च ॥ — २२ हिसु २३ तृहप हिंसायाम् ' । उदित्वाद् ने हिनस्ति, जिहिंस । दिवि " व्यअनाद् देः, " ४।३।७८ इति दिवो लुकि सस्य दत्वे च अहिनत् ।
१. न्त्यी० इति मु० ॥