________________
२८२ ]
आचार्यश्रीहेमचन्द्रविरचिते [धा० १५. दासः । “ भुजेः कित् " ( उ० ८०२) इति युः भुज्युः ऋषिः । “विश्वाद्विदि." (उ० ९५६) इत्यसि विश्वभोजा अग्निः । भुजोत कौटिल्ये [५।३७], निभुजति ॥
'१६ अनौप् व्यक्ति-म्रक्षण-गतिषु' । व्यक्तिः प्रकटता, म्रक्षणं घृतादिसेकः । तत्र केवलस्य म्रक्षणे एव वृत्तिः, सोपसर्गविशेषस्य तु शेषयोरिति विवेकः । अनक्ति, व्यनक्ति । " अनातो." ४११६९ इति पूर्वस्याऽऽत्वे नेऽन्ते च आनअ, आनअतुः । औदित्वाद् वेट् , अजिता, अङ्गा । " सिचोऽजेः" ४४८४ इति इटि आश्रीत , आञ्जिष्टाम् । “ऋस्मिपू०" ४।४।४८ इति सनि इटि "न बदनं " ४।१।५ इति नस्य द्वित्वाभावे " स्वरादेः०" ४११४ इति जेवित्वे
अजिजिपति । “जनशो०" ४।३।२३ इति वा क्त्वः कित्त्वे अकृत्वा, अकूत्वा, इटि अजित्वा । वेट् त्वात् क्तयोनेंट् , अक्तः, अक्तवान् । “ कुप्यभिद्य० " ५।१।३९ इति क्यपि निपातनाद् आज्यं घृतम् । संज्ञाया अन्यत्र " ऋवर्ण०" ५।१।१७ इति ध्यणि “क्तेऽनिट०" ४।१।१११ इति गे अङ्ग्यम् । उणादौ " पाटयअिभ्यामलि:" ( उ० ७०२ ) अञ्जलिः । “ अफेयवेरिष्ठुः" ( उ० ७६४ ) अञ्जिष्ठुः भानुः । " अञ्जरिष्णुः" (उ० ७७१ ) अञ्जिष्णुः तैलादि । “ अफेयर्तेः कित्" (उ० ७७७) इति तुनि अक्तुः इन्द्रः । " अस " (उ० ९५२) इत्यसि अनः स्नेहः ॥
१७ ओविजै भयचलनयोः' । विनक्ति, विक्तः, विवेज । " विजेस्टि" ४।३।१८ इति इटो ङिच्चाद् न गुणः, उद्विजिता, उद्विजितुम् । ऐदित्वात् क्तयोर्नेट् । ओदित्वात् “सूयत्यादि०" ४।२।७० इति क्तयोस्तस्य नत्वे उद्विग्नः, उद्विग्नवान् । ओविजेति भयचलनयोः [५।१५४ ], उद्विजते ॥
अथ तान्तः सेट च ॥ १८ कृतैप वेष्टने' । कृणत्ति, कृन्तः, चकर्त, कर्तिता । सादौ असिचि "कृतचूत." ४।४।५० इति वेटि कर्त्यति, कतिष्यति । वेटत्वात् क्तयोर्नेट् . कृत्तः, कृत्तवान् । ऐदित्वाद् यङ्लुपि अनेकस्वराद् अपि क्तयोर्नेट , चरीकृत्तः, चरीकृत्तवान् । "क्वा" ४।३।२९ इति किवाभावाद् गुणे कतित्वा । सिचि अकर्तीत् । उणादौ " कृतिपुति० " ( उ० ७६ ) इति किति तिके 'कृत्तिका । " कृतेस्तर्क च" (उ० ७२३) इत्युः, तर्कुः सूत्रवेष्टनशलाका ॥
अथ दान्तः सेट च ॥ १९ उन्दैप क्लेदने' । उनत्ति । " गुरुनाम्यादेः " ३।४।४८ इति परोक्षाया आमि उन्दाञ्चकार । उन्दिता, उन्दितुम् । सनि " न बदनं०" ४।१।५
१. कृत्तिका: इति मु०॥