________________
२८० ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ७अनुस्वारेचान्नेट, क्षोत्ता, क्षोत्तम् , क्षुण्णः । उणादौ "ऋज्यजि०" (उ० ३८८) इति किति रे क्षुद्रः ॥
'८ अछपी दीप्तिदेवनयोः' । वमनेऽप्यन्ये । छन्ते, छगत्ति, चच्छृदे, चच्छर्द, छर्दिता, छर्दितुम् । ऋदित्वाद् वाऽङि अच्छ्रदत् , अच्छीत् । आत्मनेपदे तु अच्छर्दिष्ट । असिचि सादौ “ कृतचूत०' ४।४।५० इति वेट् , छद्मति, छर्दिष्यति । सिचि तु नित्यम् इटि अच्छीत् । गौ डे "ऋदवर्णस्य०" ४॥२॥३७ इति ऋतो वा ऋत्वे अचिच्छ्रदत् , अचच्छर्दत् । ऊदित्वात् क्त्वि वेट् , कृत्वा, छर्दित्वा । वेटत्वात् क्तयोर्नेट् , कृष्णः, घृण्मवान् । “ऋदुपान्त्याद्।" ५।११४१ इति क्यपि छ्यम् । उणादौ " रुच्यचि० " ( उ० ९८९) इति इसि छर्दिः वान्तिः ॥
९ ऊपी हिंसाऽनादरयोः' । तन्ते, तृणत्ति, ततृदे, ततर्द । ऋदिवाद् वाऽङि अतृदत् , अतीत् । आत्मनेपदे तु अतर्दिष्ट । तर्दिता, तदितुम् । असिचि सादौ "कृतचत०" ४।४।५० इति वेट , तय॑ति, तर्दिष्यति । सिचि तु अतदीत् । अदित्वात् क्त्वि वेट्, तृत्त्वा, तर्दित्वा । वेट् त्वात् क्तयोर्नेट , तृष्णः, ष्णवान् । उणादौ " पदिपठि०" ( उ० ६०७) इत्यो वितर्दिः; स्वार्थ के वितर्दिका च वेदिः ॥ 1 अथ परस्मैपदिषु चान्तास्त्रयः सेटश्च ॥
१० पृचैः सम्पर्के' । “शेषात् ० " ३।३।१०० इति परस्मैपदे पृणक्ति, पपर्च, पपृचुः । " व्यअनाद् देः०" ४।३।७८ इति दिवो लुकि अपृणक् । संपचिंता । ऐदित्वात् क्तयोर्नेट् , संपृक्तः, संपृक्तवान् । “ समः पृचै ०" ५।२।५६ इति घिनणि संपर्कशीलः संपर्की । घनि “क्तेऽनिटः०" ४।१।१११ इति के पर्कः । मधुना पर्कः मधुपर्कः । संपर्कः । पृचैङ् संपर्चने [ २.५० ], पृक्ते । पृचण् संपर्चने [ ९।३८५ ], " युजादेः० " ३।४।१८ इति वा णिचि संपर्चयति, संपर्चति ॥ ___११ वृचैप् वरणे' । वृणक्ति, वृङ्गः, वृश्चन्ति । दिवि अवृणक् । ववर्च, ववृचुः, वचिंता । ऐदित्वात् क्तयोर्नेट् , वृक्तः, वृक्तवान् । घनि “क्तेऽनिटः०" ४।१।१११ इति के वर्कः । जान्तोऽयमित्यन्ये । जान्तोऽपि वर्जनार्थ इत्येके । वृक्षन्ति, ववर्ज । पति वर्गः ॥