SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ७] धातुपारायणे रुधादयः (६) [ २७९ अथ जान्तोऽनिट् च ॥ '४ युनूंपी योगे' । युङ्क्ते, युनक्ति, युयुजे, युयोज । ऋदित्वाद् वाऽडि अयुजत् , अयोक्षीत् । आत्मनेपदे तु “धुड्" ४।३।७० इति सिज्लुकि अयुक्त । " उत्स्वराद्" ३।३।२६ इत्यात्मनेपदे उद्युक्ते, प्रयुङ्क्ते, नेह, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । यज्ञे यद् यज्ञपात्रं तद्विषयस्यैव युज्यर्थस्य वर्जनाद् इह आत्मनेपदम् एव, रन्धने यज्ञपात्रं प्रयुक्ते, यज्ञे धनपात्रं प्रयुक्ते । अनुस्वारेवान्नेट् , योक्ता, योक्तुम् , वियुक्तः । युजिच् समाधौ [ ३१११ ], युज्यते ॥ ___५ भिदंपी विदारणे' । भिन्ते, भिनत्ति, बिभिदे, विभेद । ऋदित्वाद् वाडि अभिदत् , अभैत्सीत् । आत्मनेपदे तु “धुडू" ४।३।७० इति सिज्लुकि अमित्त । अनुस्वारेच्चान्नेट् , भेत्ता, भेत्तुम् । “रदाद." ४।२।६९ इति क्तयोस्तस्य नत्वे भिन्नः, भिन्नवान् । भित्तं शकलम् [ ४।२।८१], मिन्नम् अन्यत् । “कुप्यभिद्य." ५।१।३९ इति क्यपि निपातनाद् भिनत्ति कूलानि इति भिद्यो नदः । "कर्मणोऽण" ५।११७२ इत्यणि काष्ठभेदः । " असरूपो." ५११६ इति क्विपि काष्ठभित् । " वेत्ति० " ५२७५ इति किति घुरे भिद्यते स्वयमेव भिदुरं काष्ठम् । भिदाधङि भिदा विदारणम् , भित्तिः अन्या । उणादौ " कृतिपुति" ( उ० ७६) इति किति तिके मित्तिका कुड्यम् । “ विहाविशा०" (उ० ३५४ ) इति कर्मकर्तरि केलिमः, भिदेलिमं काष्ठम् । “ऋज्यजि०" ( उ० ३८८ ) इति किति रे भिद्रम् अदढम् । “शुपीषि० " ( उ० ४१६) इति किति इरे भिदिरः अशनिः । " नाम्युपान्त्य० " ( उ० ६०९) इति किद् :, मिदिः वजम् ।।। '६ छिद्रूपी द्वैधीकरणे' । अद्वैधस्य पृथक्त्वे । छिन्ते, छिनत्ति, चिच्छदे, चिच्छेद । ऋदित्वाद् वाऽडि अच्छिदत् , अच्छत्सीत् । आत्मनेपदे तु “धुड्." ४।३।७० इति सिज्लुकि अच्छित्त । अनुस्वारेत्वान्नेट् , छेत्ता, छेत्तुम् , छिन्नः । क्विपि रज्जुच्छित् । "वेत्ति" ५।२७५ इति किति घुरे छिदुरा रज्जुः । मिदाद्यङि छिदा द्वैधीभावः । छितिः विच्छित्तिश्चाऽम्या । उणादौ "ऋज्यजि." ( उ० ३८८ ) इति किति रे छिद्रम् । “शुषीषि०" ( उ० ४१६) इति किति इरे छिदिर: उन्दुरः । छिदिरं शस्त्रम् । “ नाम्युपान्त्य०" (उ० ६०९) इति किद् इ., छिदिः छेत्ता परशुश्च ॥ ७ क्षुद्रूपी संपेषे' । क्षुन्ने, क्षुणत्ति, चुक्षुदे, चुक्षोद । ऋदित्वाद् वाऽङि अक्षुदत् , अक्षौत्सीत् । आत्मनेपदे तु " धुड्०" ४।३।७० इति सिज्लुकि अक्षुत्त ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy