SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अथ रुधादयः (६)॥ अथ रुधादयः नविकरणा वर्णक्रमेण प्रदर्श्यन्ते ॥ - '१ रुपी आवरणे' । आवरणं व्यापित्वम् । पित्वं रुधादित्वज्ञापनार्थम् । ईदित्वात् " ईगितः" ३३९५ इति फलवकर्तर्यात्मनेपदे "रुधां स्वरात" ३।४।८२ इति श्न " नास्त्योः०" ४।२।९० इत्यल्लुकि " नां०" १।३।३९ इति बहुवचनाद् णत्वाऽपवादे ने रुन्द्धे । फलवतोऽन्यत्र “शेषात्० " ३।३।१०० इति परस्मैपदे रुणद्धि । रुरुधे, रुरोध । ऋदिवाद् “ ऋदिच्छवि०" इति वाडि अरुधत् , पक्षे सिचि " व्यञ्जनानाम् " ४।३।४५ इति वृद्धौ अरौत्सीत् । आत्मनेपदे “धुड्हस्त्रात्" ४।३।७० इति सिजलुकि अरुद्ध । कर्मकर्तरि “रुधः" ३।४८९ इति जिचप्रतिषेधे अरुद्ध गौः स्वयमेव । “ सेः सुद्धाम्" ४।३।७९ इति सिचो लुकि धो वा रुत्वे च अरुणस्त्वम् , अरुणत् त्वम् । अनुस्वारेचान्नेट् , रोद्धा, गेद्धम् , रुद्धः । " नाम्युपान्त्य०" ५।१।५४ इति के रुधः, प्ररुधः । “ग्रहादिभ्यो.." ५।११५३ इति णिनि अपरोधी, उपरोधी । “समनुव्यवा" ५।२।६३ इति धिनणि संरोधशीलः संरोधी, अनुरोधी । “उपपीड० " ५।४।७५ इति णमि व्रजोपरोधं गाः सादयति; " तृतीयोक्तं वा" ३१५० इति वा समासः । पक्षे ब्रजेनोपरोधम् , बजे उपरोधम् । उणादौ " शुषीषि०" ( उ० ४१६) इति किति इरे रुधिरम् ।। ___ अथ चान्तावनिटौ च ॥ .२ रिपी विरेचने ' । विरेचनं निःसारणम् । रिङ्क्ते, रिणक्ति, रिरिचे, रिरेच । ऋदिवाद् वाङि अरिचत् , अरेक्षीत् । अनुस्वारेवान्नेट् . रेक्ता, रेक्तुम् , रिक्तः । उणादौ " नीनूरमि०" ( उ० २२७ ) इति किति थे रिक्थम् । रिचण वियोजने च [९।३८६ ], " युजादेः० " ३।४।१८ इति वा णिचि रेचयति, रेचति ॥ _ '३ विपी पृथग्भावे' । विङ्क्ते, विनक्ति, विविचे, विवेच । ऋदित्वाद् वाऽङि अविचत् , अवैक्षीत् । आत्मनेपदे तु " धुड्० " ४।३।७० इति सिजलुकि अविक्त । अनुस्वारेन्वान्नेट् , वेक्ता, वेक्तुम् , विविक्तः । घनि “क्तेऽनिट:०" ४।१।१११ इति चस्य के विवेकः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy