________________
१५८ ] धातुपारायणे तुदादयः (५)
[ २७७
अथ जान्ताश्चत्वारः ॥ • १५४ ओविजैति भयचलनयोः' । उद्विजते, उद्विविजे । “ विजेस्टि" ४।३।१८ इति इटः ङित्वाद् न गुणः, उद्विजिता, उद्विजितुम् । ऐदित्वात् क्तयोनेट , विग्नः, विग्नवान् ; ओदित्वात् " सूयत्यादि०" ४।२।७० इति क्तयोस्तस्य नत्वम् । गौ क्ते उद्वेजित: । " व्यअनाद्० " ५।३।१३२ इति करणे घनि वेगः ।।
१५५ ओलजेड १५६ ओलस्जैति बीडे' । लजते, लेजे, लजिता । ऐदित्त्वात् क्तयोर्नेट् , ओदित्वात् “ सूयत्यादि० " ४१२७० इति क्तयोस्तस्य नत्वे लग्नः, लग्नवान् । नादिः अयमिति 'चन्द्रः, नग्नः ॥
'१५६ ओलस्जैति' । “ सस्य शषौ" ११३६१ इति शे, तस्य " तृतीयस्तृतीय०" १।३।४९ इति जे लज्जते, ललज्जे, लज्जिता, लज्जितुम् । ऐदित्वात् क्तयोर्नेट , ओदित्वात् तस्य नत्वे "संयोगस्यादौ० " २०१६८८ इति सलुकि लग्नः, लग्नवान् । भिदायङि लज्जा । उणादौ "लस्जीष्यि." (उ० ८२२ ) इति आलो लज्जालु: । भ्वादौ युक्तपाठौ अप्येतौ प्रसिद्धयनुरोधादिह पठितौ ॥ - १५७ ध्वजित् सङ्गे' । “प: सो०" २१३९८ इति से "स्वअच" २॥३४५ इति पत्वे "नो व्यञ्जनस्य०" ४।२।४५ इति नलुकि परिष्वजते । परोक्षायां तु आदेः एव पत्वे " स्वओनवा" ४।३।२२ इति परोक्षाया वा कित्त्वे परिषस्वजे, परिषस्वजे । परि-नि-विपूर्वस्य " स्तुस्वअश्च० " ॥३।४९ इति अव्यवाये वा पत्वे पर्यप्वजत, पर्यस्वजत; न्यष्वजत, न्यस्वजत; व्यष्वजत, व्यस्वजत । अनुस्वारेच्चान्नेट , स्वता, स्वङ्कतुम् , परिष्वक्तः । नत्रा निर्दिष्टस्य अनित्यत्वाद् इटि अस्व अिष्ट । " जनशो०" ४।३।२३ इति क्त्वः वा किल्वे स्क्त्वा, स्वकृत्वा । घञि परिष्वङ्गः, क्तौ स्वक्तिः, परिष्वक्तिः ॥
अथ षान्तः सेट् च ॥ _ '१५८ जुपैति प्रीतिसेवनयोः' । जुषते, जुजुषे, जोषिता, जोषितुम् । ऐदित्वात् क्तयोर्नेट् , जुष्टः, जुष्टवान् । “ दृवृग्० " ५।११४० इति क्यपि जुष्यः । विपि "सजुषः" २०१७३ इति निर्देशात् सहस्य से, सस्य रुत्वे सजू: सजुषौ । जुषण परितर्कणे [ ९।४११], "युजादेः०" ३।४।१८ इति वा णिचि जोषयति जोषति ॥
इत्याचार्य श्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणे
तिच्छविकरणस्तुदादिगणः संपूर्णः ।। १. मुद्रिते चान्द्रधातुपाठे तु ओलजी (६१००) इत्येव पठ्यते । (क्षो. त. टि. पृ. २३५)।