________________
५)
२७६ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १४९
यार रहना.
अथोदन्तः सेट् च ॥ • १४९ कूड्त्' । कुवते, चुकुवे । " कुटादेः०" ३।४।१७ इति णितोऽन्यस्य ङित्त्वाद् न गुणः, कविता, कुवितुम् । किति " उवर्णात् " ४।४।५८ इति नेट् , कूतः, कूतवान् , कूत्वा, आकृतम् ॥
अथ रान्तः सेट् च ॥ * १५० गुरति उद्यमे' | गुरते, जुगुरे । “ कुटादेः० " ३।४।१७ इति ङिवाद् न गुणः, गुरिता, गुरितम् । ऐदिचात् क्तयोनेंट , गूर्णः, गूर्णवान् । ञ्णिति तु गुणे “ वाऽपगुरो णमि" ४।२।५ इति सन्ध्यक्षरस्य वा आत्वे अपगारमपगारम् , अपगोरमपगोरम् । णौ आगोरयति । आगूरयति इति तु गूर्यतेः ॥
वृत् कुटादिः । कुटादिः तुदाद्यन्तर्गणः वर्तितः संपूर्ण इत्यर्थः ॥
__ अथ प्रकृतवर्णक्रमेण ऋदन्तास्त्रयोऽनिटश्च ॥
'१५१ पंडत व्यायामे' । व्यायाम उद्योगः । " इडित:" ३।३।२२ इति आत्मनेपदे “रिः शक्या०" ४।३।११० इति रौ इयि व्याप्रियते । व्यापप्रे । अनुस्वारेत्वान्नेट , पर्ता, पर्तुम् , व्यापृतः । “ हनृतः०" ४।४।४९ इति इटि व्यापरिष्यते । घनि व्यापारः ॥
• १५२ दंड्त् आदरे' । आद्रियते, आदतें । अनुस्वारेचान्नेट् , आदर्ता, आदृतः, प्रदतः । “ हनृतः०" ४।४।४९ इति इटि आदरिष्यते । "ऋस्मिपू०" ४।४।४८ इति सनि इटि दिदरिषते । " वृग्० " ५।११४० इति क्यपि आवृत्यः । " पुरन्दर० " ५।१।११४ इति णौ खे निपातनात् पुरो दारयति पुरन्दरः शक्रः, भगन्दरः रोग । " जीण" ५।२७२ इति इनि आदरशीलः आदरी । “युवर्ण०" ५।३।२८ इति अलि आदरः । दर्भ इति तु " गृदृरमि० " ( उ० ३२७ ) इति मे दणातेः । उणादौ " दृमुषि० " ( उ० ६५१) इति किति तौ दृतिः भस्वा ।
'१५३ धृत् स्थाने ' । धारणे इत्यन्ये । ध्रियते, दधे । अनुस्वारेचान्नेट्. धर्ता, धृतः । " हनृतः०" ४।४।४९ इति इटि धरिष्यते । “ऋस्मिपू. " ४।४।४९ इति सनि इटि दिधरिपते । “ऋवर्ण०" ५।१।१७ इति ध्यणि धार्यः । "न्यायावाय० " ५।३।१३४ इति आधारे पनि आधारः । धृग् धारणे [११८८७], भरते, धरति ॥