________________
१४८ ] धातुपारायणे तुदादयः (५)
[ २७५ अथ पान्तः सेट च ॥ · १४४ डिपत् क्षेपे' । डिपति, डिडेप । “ कुटादेः० " ४।३।१७ इति ङिवाद् न गुणः, डिपिता, डिपितुम् । णिति तु गुणे अडेपि, डेपयति । "आसुयु०" ५।१।२० इति ध्यणि डेप्यम् । डिपच क्षेपे [३।५३ ], डिप्यति, डेपिता । डिपण क्षेपे [ ९।१०१ ], डेपयति । डिपिण संघाते [९।२६४], डेपयते ॥
अथ रान्तौ सेटौ च ॥ १४५ छुरत् छेदने' । छुरति, चुच्छोर । आशिषि “ कुरुच्छरः” २११६६ इति दीर्घप्रतिषेधे छुर्यात् । “ कुटादेः०" ४।३।१७ इति ङित्त्वाद् न गुणः, छुरिता, छुरितुम् , आच्छरितुम् । “ नाम्युपान्त्य०" ५।१५४ इति के छुरः । “तिकृती" ५।१।७१ इति अके छुरिका । णिति तु गुणे अच्छोरि, छोरयति ।।
१४६ स्फुरत् स्फुरणे' । चलने इत्यन्ये । स्फुरति । “निर्नेः०" २।३।५३ इति वा षत्वे निःस्फुरति, निःस्फुरति; निष्फुरति, निस्फुरति । "के" २।३।५४ विष्फुरति, विस्फुरति । विपूर्वात् णौ " चिस्फुरोः०" ४।२।१२ इति वा सन्ध्यक्षरस्य आत्वे विष्कारयति, विष्फोरयति, विस्फारयति, विस्फोरयति । घनि " स्फुरस्फुलो" ४।२।४ इति आत्वे विष्फारः, विस्फारः । णवि पुस्फोर । "कुटादेः०" ४।३।१७ इति णितोऽन्यस्य डिवाद् न गुणः, स्फुरिता, स्फुरितुम् , स्फुरितः । " नाम्युपान्त्य०" ५।१।५४ इति के स्फुरः, सस्फुरः । क्ती स्फूर्तिः ॥
अथ लान्तः सेट् च ॥ ___१४७ स्फुलत् संचये च' । चकारात् स्फुरणे । चलने इत्यन्ये । स्फुलति । " निः०" २।३।५३ इति वा पत्वे नि: फुलति, निःस्फुलति; निष्फुलति, निस्फुलति । " वेः" २।३।५४ विष्फुलति, विस्फुलति । घनि “स्फुरस्फुलोः०" ४।२।४ इति सन्ध्यक्षरस्य आत्वे विष्फालः, विस्फालः । विपूर्वात् णिगि विष्फोलयति विस्फोलयति । णितोऽन्यस्य " कुटादेः" ४।३।१७ इति ङित्त्वात् न गुणः, स्फुलिष्यति, स्फुलितः । उणादौ "स्फुलिकलि०" ( उ० १०२ ) इति इङ्गकि स्फुलिङ्गः ।।
अथ आत्मनेपदिषु उदन्तोऽनिट् च ॥ १४८ कुंङ १४९ कूङत् शब्दे'। कुवते, चुकुवे । यङि चोकूयते । " कुटादेः० " ४।३।१७ इति णितोऽन्यस्य ङिच्चाद् न गुणः, अनुस्वारेचान्नेट् , कुता, कुतम् , कुतः ॥