________________
११८ ] धातुपारायणे तुदादयः (५)
[२७१ वृद्धयभावे अध्रुषीत् । अचि ध्रुवः । " कुत्सिता०" ७३३३ इति कपि ध्रुवकः । " गुपिमिथि०" ( उ० ४८३ ) इति इले ध्रुविलः ऋषिः । सेट् अयमित्यन्ये, तन्मते न्यधुवीत् , ध्रविता । किति " उवर्णात" ४४५८ इति नेटू , ध्रुतः । ङित्वेन किवं बाध्यते [ न्या० ७ ], इति 'नये ध्रुवितः । धुं स्थैर्ये च [१।१६], ध्रवति ॥
अथोदन्तौ सेटौ च ॥ ११५ णून स्तवने' । “पाठे." २३९७ इति ने नुवति, नुनाव, नुविता, नुवितुम् । णोपदेशत्वात् “ अदुरुपसर्गा" २२३७७ इति णत्वे किति " उवर्णात् " ४।४।५८ इति इडमावे प्रणूतः, प्रणूतवान् । अन्ये तु ङित्वेन कित्त्वस्य बाधनात् इटूप्रतिषेधं नेच्छन्ति; नुवितः, प्रणुवितः । एवं धुवित इति उत्तरत्राऽपि दृश्यम् ।।
'११६ धूत विधूनने' । धुवति, दुधाव, धुविता, धुवितव्यम् । किति “ उवर्णात् " ४।४।५८ इति इडभावे धूतः, धूतवान् । अनटि निधुवनम् । उणादौ " ध्रुधून्दि०" ( उ० २९) इति अके धुवकं धूननम् , धुवका आवपनविशेषः । धूग्ट् कम्पने [ ४६], धूनुते, धूनोति । धूगश् कम्पने [८।१३ ], धुनीते, धुनाति । धूगण कम्पने | ९।३७९ ], “युजादेः०" ३।४।१८ इति वा णिचि धूनयति, पक्षे धवते, धवति ॥
____ अथ चान्तौ सेटौ च ॥ '११७ कुचत् संकोचने' । कुचति, चुकोच । “कुटादेः०" ४।३।१७ इति डिवाद् मुणाभावे कुचिता, कुचितुम् , संकुचितः । “ नान्युपान्त्य." ५।१।५४ इति के कुचौ । णिति तु ङिचाभावे णौ कोचयति । अनि ते सेट् त्वात् कत्वाभावे संकोचः । कुच संपर्चनादौ [ ११९६१], संकोचति ॥
११८ व्यचत् व्याजीकरणे' । " व्यचोऽनसि" ४|११८२ इति वृति विचति । “ ज्याव्येव्यधि० " ४।७१ इति पूर्वस्य इत्वे विव्याच । “कुटादे:." ४।३।१७ इति डिवे विचिता, विचितुम् । उणादौ "अस्" ( उ० ९५२) इति असि स्वृदभावे उरुव्यचाः, पितृव्यचाः वृश्चिकः ॥
१. न्याये इति प० प्रतौ ।