________________
२६८]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९९
" ९९ रुशं १०० रिशंव हिंसायाम् ' । रुशति, रुरोश । “ हशिटो." ३।४।५५ इति सकि अरुक्षत् । अनुस्वारेचान्नेट , रोष्टा, रुष्टः ।।
१०० रिशंत' । रिशति, रिरेश । " इशिटो. " ३।४।५५ इति सकि अरिक्षत् । अनुस्वारेचान्नेट् , रेष्टा, रिष्टः ॥
'१०१ विशंत प्रवेशने' । विशति । “निविशः" ३।३।२४ इति आत्मनेपदे “वामिनिविशः" ।।२२ इति आधारस्य कर्मत्वे ग्राममभिनिविशते । विवेश । " हशिटो. " ३।४।५५ इति सकि अविक्षत् । अनुस्वारेवान्नेट् , वेष्टा, प्रविष्टः । क्वसौ " गमहन०" ४४८३ इति वेटि विविशिवान् , विविश्वान् । "पदरुज" ५।३।१६ इति पनि वेशः वेश्यावाटः । “अजातेः शीले" ५।१११५४ इति णिनि संवेशी । " विशपत०" ५।४।८१ इति गमि गेहानुप्रवेशमास्ते, गेहं गेहमनुप्रवेशमास्ते । उणादौ " विशिभ्यां" ( उ० २१९) इति अन्ते वेशन्तः पल्वलम् । “विष्टपोलप०" ( उ० ३०७) इति. असे निपातनात् विष्टपं जगत् । “विशेरिपक" ( उ० ३०९) विशपः राशिः । " निघृषी." (उ० ५११) इति किति वे विश्वम् ॥
१०२ मशंत आमर्शने' । आमर्शनं स्पशः । मृशति, परामृशति, ममर्श । " स्पृशमृश०" ३।४।५४ इति वा सिचि " स्पृशादि० " ४।४।११२ इति स्वरात्परे वा अति "अनानाम्" ४।३।४५ इति वृद्धौ अम्राक्षीत् , अमार्षीत् ; पक्षे . " हशिटो. " ३।४।५५ इति सकि अमृक्षत् । अनुस्वारेवान्नेट् , भ्रष्टा, मी, मृष्टः । “ऋदुपान्त्याद०" ५।११४१ इति क्यपि मृश्यम् । उणादौ "युयुजि० " ( उ० २७७ ) इति किति आने मृशानः ॥
“१०३ लिशं १०४ ऋषेत् गतौ' । लिशति, लिलेश । “ हशिटो." ३।४।५५ इति सकि अलिक्षत् । अनुस्वारेचान्नेट् , लेष्टा, लिष्ट: । घनि लेशः । लिशिंच अल्पत्वे [ ३३१३४ ], लिश्यते ।।
___अथ षान्तास्त्रयः सेटश्च ॥ १०४ ऋषैत् ' । ऋष्यति । "ऋत्यारुपसर्गस्य" ११२।९ इति आरि प्रार्षति, परार्पति । " अनातो." ४११६९ इति पूर्वस्य आत्वे नेऽन्ते च आनर्ष, आनृपतुः । अर्षिता । " क्त्वा" ४।३।२९ इति 'किवाभावे अषित्वा । ऐदिचात्
१. कित्त्वत्त्वाभावे इति मु०॥