________________
२६६]
आचार्यश्रीहेमचन्द्रविरचिते [धा० ८५
अथ लान्तास्त्रयोदश सेटश्च ॥ '८५ स्फलत्' । फलति, पस्फाल, स्फलिता । णौ क्ते आस्फालितः । अनटि आस्फालनम् । कुटादिरयमित्येके, तत्पाठवलाच णके वृद्धयभावे स्फलकः ॥ ___ ८६ किलत् श्वैत्य क्रीडनयोः' । किलात, चिकेल, केलिता, किलितः । उणादौ “किलेः कित्" ( उ० ५७५ ) इति आसे किलासः सिध्मम् । किलाट इति तु किरः " किरो लश्च वा” (उ० १४७) इति आंटे 'किरतेः । " इदुदुपान्त्याभ्यां० " ( उ० १७) इति किदः, सरूपद्वित्वं पूर्वस्य चेदन्तः, किलिकिल: अनुकरणशब्दः । “ बहुलं गुणवृद्धी चादेः” ( उ० १९) इति पूर्वस्य गुणवृद्धयोश्च केलिकिलः, कैलिकिलश्च हासशील: । "किलिपिलि." (उ० ६०८) इति औ केलिः ।।
___ ८७ इलत् गतिस्वप्नक्षेपणेषु' । इलति, इयेल, एलिता । "नाम्युपान्त्य०" ५।१।५४ इति के इला । लिहायचि घत्रि वा एलः । स्त्रियाम् एला । णौ एलयति ॥
'८८ हिलत् हावकरणे' । हिलति, जिहेल, हेलिता । णौ अचि हेला । उणादौ " इदुदुपान्त्याभ्यां०" (उ० १७) इति किद् अः, स्वरूपद्वित्वं पूर्वस्य चेदन्तः, हिलिहिलः अनुकरणशब्दः । बहुलं " गुणवृद्धी चादेः" (उ० १९) हेलिहिलः, हैलिहिलश्च विलासशीलः ॥
- ८९ शिल ९० सिलत् उञ्छे' । शिलति, शिशेल, शेलिता, शिलितः । " नाम्युपान्त्य० " ५।११५४ इति के शिलम् । स्त्रियामापि शिला । शेलुः इति तु शेतेः लौ ॥
'९० सिलत् । सिलति । अषोपदेशत्वात् षत्वाभावे सिसेल । पोपदेशोऽयमित्येके, तन्मते " नाम्यन्तस्था०" २।३।१५ इति षत्वे सिषेल । सेलिता, सिलितः । “ नाम्युपान्त्य०" ५।१।५४ इति के सिलम् ॥
१९१ तिलत स्नेहने' । तिलति, तितेल, तेलिता । "नाम्युपान्त्य० " ५१।५४ इति के तिलः । तिलण स्नेहने [ ९।११९ ], तेलयति ।।
९२ चलत विलसने ' । चलति, चचाल, चलिता; चलती, चलन्ती स्त्री कुले वा । णौ कम्पने एव घटादित्वाद् हस्वाभावे चालयती । चल कम्पने
१. किलाटः इति मु० ॥