SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ८४ ] धातुपारायणे तुदादयः (५) [२६५ आशिपि कुर्यात् । अस्याऽपि न दीर्घ इत्यके, कुर्यात् । उणादौ “मृधुन्दि०" ( उ० ३९९) इति किति अरे कुररः जलपक्षी । “कितिकुडिकुरि० " (उ० ५१८) इति किति अवे कुरवः वृक्षः ॥ '७८ क्षुरत् विखनने' । क्षुरति, चुक्षोर, क्षोरिता । " नाम्युपान्त्य." ५।११५४ इति के शुरः ॥ '७९ खुरत् छेदने च' । छेदनं विलेखनम् । चकारात् विखनने । खुरति, चुखोर, खोरिता । " नाम्युपान्त्य" ५११५४ इति के खुरः । क्रोडादित्वाद् " असहनञ्० " २।४।३८ इति उथभावे कल्याणखुरा ॥ '८० घुरत् भीमार्थशब्दयोः' । घुरति, जुघोर, घोरिता । घनि घोरः । उणादौ " इदुदुपान्त्याभ्यां" (उ० १७) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः, घुरुघुरः । “ जजल० " ( उ० १८) इत्यादि निपातनात् पूर्वस्य उदभावे घुघुरः अनुकरणशब्दौ ॥ . '८१ पुरत अग्रगमने' । पुरति, पुपोर, पोरिता, पुरितः । "नाम्युपान्त्य." ५।११५४ इति के पुरम् । विपि पू: । पुरुष इति तु "विदिपृभ्यां०" (उ० ५५८) इति किति उषे पृणातेः । पुरुः इत्यपि अस्यैव " पृकाहृषि०" (उ० ७२९) इति किति औ ॥ ___'८२ मुरत् संवेष्टने ' । मुरति, मुमोर, मोरिता, मुरितः । “नाम्युपान्त्य." ५।१।५४ इति के मुरः । उणादौ " इदुदुपान्त्याभ्यां०" (उ० १७) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः, मुरुमुरः अनुकरणशब्दः । “जजल० " (उ० १८) इत्यादि निपातनात् पूर्वस्य उदभावे मुमुरः ॥ ८३ सुग्त् ऐश्वर्यदीप्त्योः ' । सुरति । अषोपदेशत्वात् पत्वाभावे सुसोर । षोपदेशोऽयमित्यके, तन्मते " नाम्यन्तस्था० " २।३.१५ इति षत्वे सुपोर । सोरिता । " नाम्युपान्त्य० " ५।११५४ इति के सुरः देवः, सुरा मद्यम् । उणादौ " इदुदुपान्त्याभ्यां" ( उ० १७) इति किदः, सरूपद्वित्वं पूर्वस्य चोदन्तः सुरुसुरः अनुकरणशब्दः ॥ '८४ स्फर ८५ स्फलत् स्फुरणे' । चलने इत्येके । स्फरोत, पस्फार, स्फरिता । अचि स्फरः । कुटादिरयमित्यन्ये, तत्पाठवलाच पके वृद्धयभावे स्फरकः । धजि स्फारः ॥ ३४
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy