________________
२६२]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ५६ अथ दान्तावनिटौ च ॥ ५६ णुदंत प्रेरणे' । " पाठे." २२३९७ इति णस्य ने नुदति । णोपदेशत्वाद् “ अदुरुपसर्गा० " २३७७ इति णत्वे प्रणुदति । नुनोद । अनुस्वारेवान्नेट् , नोत्ता । "ऋहीघ्रा०" ४।२।७६ इति क्तयोस्तस्य वा नत्वे नुन्नः, नुन्नवान् ; नुत्तः, नुत्तवान् । “शोकापनुद०" ५।११४३ इति के निपातनात् शोकापनुदः पुत्रः । घजि प्रणोदः नुदती, नुदन्ती स्त्री कुले वा । ईदिदयमित्येके, तन्मते "ईगितः" ३।३।९५ इति फलवत्कर्तरि आत्मनेपदे नुदते, नुनुदे । उणादौ " ग्लानुदिभ्यां डौः" ( उ० ८६८) नौः ॥
'५७ षलत् अवसादने । “ौति" ४।२।१०८ इति सीदादेशे, सीदति, ससाद । लदित्वादङि असदत् । पोपदेशत्वाद् “नाम्यन्तस्था० " २।३।१५ इति षत्वे सिपत्सति । ज्वला दिपठितेनैव सिद्धे इहाऽस्य पाठः "अवर्णादश्नो." २१।११५ इति वाऽन्तादेशार्थः, सीदती, सीदन्ती स्त्री कुले वा । ज्वलादिपाठोऽपि " वा ज्वलादि० " ५।१।६२ इति णविकल्पार्थः सादः, सदः। अनुस्वारेवान्नेट, सत्ता । शलत् शातने इति तु न पठितव्य एव, शित्यात्मनेपदित्वेन शतुरभावेऽन्तादेशविकल्पाऽप्राप्तः, अशदत् इत्यादेस्तु तेनैव सिद्धेः ॥
अथ धान्तः सेट् च ॥ '५८ विधत् विधाने ' । विधति, विवेध, विधितः, विधितवान् । " वो व्यअनादेः०" ४।३।२५ इति कृत्वासनो; कित्वे विधित्वा, वेधित्वा; विविधिषति, विवेधिषति । " नाम्युपान्त्य०" ५।११५४ इति के विधः । उणादौ "विधेर्वा " ( उ० ९७२ ) इति वा किति असि विधाः, वेधाश्च ब्रह्मा ॥
अथ नान्तौ सेटौ च ॥ • ५९ जुन ६० शुनत् गतौ' । जुनति, जुजोन, जोनिता, जुनितः ॥
'६० शुनत् । । शुनति, शुशोन, शोनिता । " नाम्युपान्त्य०" ५।११५४ इति के शुनः वायुः । उणादौ " कीचकपेचक० " ( उ० ३३ ) इति अके निपातनात् शुनकः ॥
अथ पान्तोऽनिट् च ॥ '६१ छुपेत् स्पर्श' । छुपति, चुच्छोप । अनुस्वाचान्नेट् , छोप्ता ॥