________________
५५ ] धातुपारायणे तुदादय (५)
[ २६१
'५० 'पुणत् शुभे' । शुभं शुभविषया क्रिया । पुणति, पुपोण, पोणिता, पृणितः । “ नाम्युपान्त्य०" ५।११५४ इति के पुणः निपुणः । उणादौ “सृणीकास्तीक० " ( उ० ५० ) इति ईके निपातनात् पुण्डरीकम् । "कुगुहुनि०" ( उ० १७० ) इति किति डे पुण्डः भिन्नवर्णः, बाहुलकान दीर्घः । एवं कुण्डादिअपि । “ऋशिजनि०" ( उ० ३६१) इति किति ये पुण्यम् । " खुरक्षुर०" ( उ० ३९६) इति निपातनात् पुण्डः ॥
५१ मुणत् प्रतिज्ञाने' । मुणति, मुमोण, मोणिता, मुणितः । उणादौ "कुगुहुनी०" (उ० १७०) इति डे मुण्डः ॥
'५२ कुणत् शब्दोपकरणयोः ' । कुणति, चुकोण, कोणिता, कुणितः । " नाम्युपान्त्य० " ५।११५४ इति के कुणः । घनि कोणः । उणादौ "कुगुहुनी." ( उ० १७० ) इति किति डे कुण्डम् । “भाजगोण." २।४।३० इति ड्यां कुण्डी अमत्रम् ; कुण्डा अन्या । "कल्यलि." (उ० २४६) इति इन्दकि कुणिन्दः म्लेच्छः । “ कुलिपिलि०" ( उ० ४७६ ) इति किति आले कुणालं नगरम् ॥
'५३ घुण ५४ घूर्णत् भ्रमणे' । घुणति, जुघोण, घोणिता, घुणित: । " नाम्युपान्त्य ० " ५।१।५४ इति के घुणः । लिहायचि घोणा ॥
'५४ घूर्णत्' । घूर्णति, जुघूर्ण, घूर्णिता, पूर्णितः; घूर्णती, घुर्णन्ती स्त्री कुले वा । घुणि पूर्णि भ्रमणे [ ११७०८-७०९ ], घोणते, घृणते ।
अथ तान्तः सेट् च ॥ '५५ चुतैत् हिंसाग्रन्थयोः' । घृतति, चचर्त, चर्तिता | सादौ 'कृतचूत०" ४।४।५० इति वेट , चय॑ति, चर्तिष्यति, चित्सति, चिचतिषति । असिचः इति वचनात् सिचि नित्यमिटि अचीत् । वेट्त्वाक्तयोर्नेट , वृत्तः, वृत्तवान् ; ऐदिचाद् यङ्लुपि अनेकस्वरादपि क्तयोनेंट, चरीवृत्तः, चरीवृत्तवान् । “ ऋदुपान्त्याद०" ५११४१ इत्यत्र चूतो वर्जनाद् "ऋवर्ण" ५।१।१७ इति ध्यणि चय॑म् ॥
१. पुण कर्मणि शब्दे च इति क्षीरस्वामी (क्षो. त. पृ. २३९ ) ॥