________________
४१ ] धातुपारायणे तुदादयः (५)
[ २५९ '३८ टुमस्जोंत् शुद्धौ' । शुद्धया स्नान 'ब्रुडनं च लक्ष्यते । “सस्य शौ" १।३।६१ इति शे " तृतीयस्तृतीय० " १।३।४९ इति शस्य जे मज्जति, ममज्ज । अनुस्वारेचान्नेट् , “ मस्जेः सः" ४।४।११० इति धुटि सस्य नत्वे मला । 'ओदिचात् “सूयत्यायो०" ४।२।७० इति क्तयोस्तस्य नत्वे " नो व्यञ्जनस्य०" ४।२।४५ इति नलुकि मग्नः, मग्नवान् । “जनशो०" ४३३२३ इति क्त्वः वा कित्वे मक्त्वा, मङ्क्त्वा । " ऋवर्ण०" ५।१।१७ इति ध्यणि " तेऽनिट." ४।१।१११ इति जस्य गे " तृतीयस्तृतीय०" १।३।४९ इति सस्य दे मद्ग्यः । अचि मज्जः । “ नाम्न्युत्तरपदस्य० " ३१२।१०७ इति उदे उदके मज्जः उदमज्जः। दिवत्वादथौ मज्जथुः । अनटि मजनम् । भिदायडि मज्जा । उणादौ “भृमृतृ०" (उ० ७१६) इति उः, उद्गादित्वात् गत्वे मद्गुः । “ उक्षितक्षि०" (उ० ९००) इति अनि मज्जा अस्थिसारः, मज्जानौ । मञ्जूषा इति तु मोः सौत्रस्य " खलिफालि०" ( उ० ५६० ) इति ऊषे ॥
'३९ जर्ज ४० झझत् परिभाषणे' । जर्जति, जजर्ज, जर्जिता, जर्जितः, जर्जती, जर्जन्ती स्त्री कुले वा ॥
. अथ झान्तौ सेटौ च । ___ '४० झझन् ' । झर्झति, जझर्झ, झझिता, झझितः, झझती, झझन्ती स्त्री कुले वा । जर्जरझझरौ तु जप पो “ ऋतष्ठित् ० " (उ० ९) इति अप्रत्यये सरूपद्वित्वे च । तर्जनेऽप्ययमित्यन्यः ।
'४१ उद्झत् उत्सर्गे' । दोपान्त्योऽयम् । “ तवर्गस्य ० " ११३।६० इति दस्य जे उज्झति । “गुरुनाम्यादेः०" ३।४।४८ इति परोक्षाया आमि उज्झाञ्चकार । उज्झिता । " न वदनं० " ४११५ इति दस्य प्रतिषेधात् " स्वरादेः०" ४३११४ इति द्वितीयांशस्य झेरेव द्वित्वे उज्झिझिषति । “कुप्यभिद्यो." ५।१।३९ इति क्यपि निपातनाद् उज्झति उदकमिति उद्ध्यो नदः । क्विपि पदान्ते “पदस्य " २।१।८९ इति संयोगान्तलुकि उत् , उद् । उज्झती, उज्झन्ती स्त्री कुले वा ॥
१. वुडनं इति मु० ॥ २. उदि इति मु० ॥ ३. भृम इति मु० ॥