________________
३४ ] धातुपारायणे तुदादयः (५)
'३० उछत् विवासे' । विवासः अतिक्रमः । " स्वरेभ्यः" १३३० इति छस्य द्वित्वे उच्छति । " गुरुनाम्यादेः" ३।४।४८ इति परोक्षाया आमि उच्छाञ्चकार । उच्छिता । ऐदित्वात् क्तयोर्नेट् , “ अनुनासिके च० " ४।१।१०८ इति छस्य शे " यजसृज०" २०११८७ इति शस्य थे व्युष्टः, व्युष्टवान् ; व्युष्टा नाडिः, व्युष्टं प्रातः । सनि उचिच्छिषति । छस्य द्वित्वे पूर्वस्य चस्य तत्वं च इच्छन्त्येके, तन्मते उतिच्छिपति इत्यपि; एवमन्यत्रापि । शतरि “ अवर्णादश्नो." २।१।११५ इति वान्तादेशे उच्छती, उच्छन्ती स्त्री कुले वा ॥
३१ मिछत् उत्क्लेशे' । उत्क्लेशो बाधनम् । “ स्वरेभ्यः" ११३३० इति छस्य द्विन्वे मिच्छति, मिमिच्छ, मिच्छिता, मिच्छितः; मिच्छती, मिच्छन्ती स्त्री कुले वा । पिछेति द्रमिलाः, 'पिच्छा आचामः ॥
३२ उछत् उञ्छे' । उञ्छः उच्चयः । उदिवाने " तवर्गस्य." ११३।६० इति नस्य जे उञ्छति । " गुरुनाम्यादे:०" ३४४८ इति परोक्षाया आमि उञ्छाञ्चकार । उञ्छिता । घनि उञ्छः । उञ्छती, उञ्छन्ती स्त्री कुले वा ॥
___ ३३ प्रछत् ज्ञीप्सायाम् ' । ज्ञीप्सा जिज्ञासा । " स्वरेभ्यः" १३३३३० इति छस्य द्वित्वे " ग्रहवश्च० " ४।१८४ इति वृति पृच्छति । “समो गमृ०" ३।३।८४ इति आत्मनेपदे संपृच्छते । आपूर्वस्य "नुप्रच्छः" ३।३।५४ आपृच्छते गुरुम् । पप्रच्छ । संयोगान्तत्वाद् “ इन्ध्यसंयोगा०" ४।३।२१ इति कित्त्वाभावान्न रवृत् , पप्रच्छतुः, पप्रच्छुः । अनुस्वारेवान्नेट् , प्रष्टा, पृष्टः । “ऋस्मिपूङ० " ४।४।४८ इति इटि "रुदविद०" ४।३।३२ इति सनः किल्वे पिपृच्छिषति । " दिद्युद्०" ५।२।८३ इति क्विपि निपातनात् प्रश्नशीलः प्राट् , शब्दप्राट् । प्राविवाको निर्णेता । “यजिस्वपि०" ५।३।८५ इति ने “अनुनासिके च" ४।१।१०८ इति छस्य शे प्रश्नः । मिदाद्यङि पृच्छा । उणादौ " लूधूप्रच्छिभ्यः कित् " ( उ० ६७९ ) इति नौ पृश्निः रश्मिः ॥
अथ जान्ताः षट् ।। _ '३४ उज्जत् आर्जवे' । उब्जति । “गुरुनाम्यादेः०" ३४४८ इति परोक्षाया आमि उब्जाञ्चकार । उब्जिता, उब्जितः । “न बदनं० ॥ ४।१।५ इति
१. पिच्छा : आचामः । (क्षी. त. पृ. २३६ )। २ तुम इति मु०॥
33