________________
[२५५
२६ ] धातुपारायणे तुदादयः (५) गीर्णः, गीर्णवान् । क्तौ गिणिः । गीर्वा । " नाम्युपान्त्य०" ५।१५४ इति के गिरः, लत्वे गिल: । अणपवादे लिहायचि अजगरः, ओदनगरः । काऽपवादे अचि अलि वा गरः, लत्वे गलः । “ न्युदो ग्रः" ५।३।७२ इति पनि निगारः, उद्गारः । बाहुलकाद् घनि णे वा अगारम् । उणादौ “ऋतष्टित् " ( उ० ९) इति अः सरूपे च द्वे रूपे गर्गरः राजर्षिः, गर्गरी महाकुम्भः । “गम्यमि० " (उ० ९२ ) इति गे गर्गः ऋषिः । “ दम्यमि०" ( उ० २००) इति ते गर्तः । “ गृदृरमि० " ( उ० ३२७) इति मे गर्भ: । " कशग० " (उ० ३२९) इति अभे गरमः गर्भ एव । “ लटिखटि०" ( उ० ५०५) इति वे गर्वः । "प्रह्वाह्वा०" ( उ० ५१४) इति वे निपातनाद् ग्रीवा । “नाम्युपान्त्य०" (उ० ६०९) इति किदिः, गिरिः । “यो मादिर्वा" ( उ० ८९० ) इति उति गरुत् , गर्मुत्-हेम । गृश् शब्दे [ ८।३१ ], गृणाति ॥
___ अथ खान्तः सेट् च ॥ ' २२ लिखत् अक्षरविन्यासे' । लिखति, लिलेख, लेखिता, लिखितः । "नाम्युपान्त्य०" ५।११५४ इति काऽपवादे लिहायचि लेखः, भिदादिनिपातनादङि लेखा । करणाऽऽधारे "व्यअनात्" ५।३।३२ इति घजि लेखः । उणादौ " ध्रुधून्दि० " ( उ० २९) इति किति अके लिखक: चित्रकारः । कुटादिस्यमित्येके, लिखनीयम् ॥
___ अथ चान्ताः पञ्च सेटश्च ॥ . २३ जर्च २४ झर्चत् परिभाषणे' । तर्जनेऽपि इत्येके । जर्चति, जजर्च, जर्चिता, जर्चितः ॥
२४ झर्चत् ' । झर्चति, जझर्च, झचिंता झर्चितः । चादिरयमित्येके, चर्चति; णके चचिका ॥
'२५ त्वचत् संवरणे' । संवरणम्-आच्छादनम् । त्वचति, तत्वाच, त्वचिता । अचि त्वचः । विपि सिरामांसादि त्वचति इति त्वक् ॥
'२६ ऋचत् स्तुतौ । ऋचति । " अनातो." ४।१।६९ इति पूर्वस्य आत्वे ने च आनर्च, आनृचतुः । अचिंता, ऋचितः । “ऋदुपान्त्याद० " ५।१।४१ इत्यत्र ऋचो वर्जनाद् " ऋवर्ण० " ५।१।१७ इति ध्यणि ते सेट्त्वात्